________________
पद्मपुराणम् ।
त्रिनवतितमं पर्व । तां प्रसादनसंयुक्ता प्रसाद्यां प्राप्य लक्ष्मणः । प्रशान्तकलुषो जातो भ्रकुटीरहिताननः ॥ ४५ ॥ ततो रत्नरथः सारं सुतैर्मानविवर्जितः । प्रीत्या निर्गत्य नगरादुपायनसमन्वितः ॥ ४६॥ देशकालविधानज्ञो दृष्टात्मपरपौरुषः । संगत्य सुष्ठु तुष्टाव मृगनागारिकेतनौ ॥ १७ ॥ अन्तरेऽत्र समागत्य सुमहाजनमध्यगम् । नारदो रुपयद्रत्नरथं सस्मितभाषितैः ॥४८॥ का वातो तेऽधुना रत्नरथ पांशुरथोऽथ वा । केचित्कुशलमुत्तुंगभटगर्जितकारिणः ॥ ४९ ॥ नूनं रत्नरथो न त्वं सहि गर्वमहाचलः । नारायणांघिसेवास्थो भवन कोऽप्यपरो नृपः॥५०॥ कृत्वा कहकहाशब्दं कराहतकरः पुनः । जगौ भो स्थीयते कच्चित्सुखं रत्नरथांगजाः ॥५१॥ सोऽयं नारायणो यस्य भयद्भिस्तादृशं तदा । गदितं हृदयाग्राहि स्वगृहोद्धतचेष्टितैः ॥५२॥ एवं सत्यपि तैरुक्तं त्वयि नारद कोपिते । महापुरुषसंपर्कः प्राप्तोऽस्माभिः सुदुर्लभः ॥ ५३ ॥ इति नर्मसमेताभिः कथाभिः क्षणमात्रकम् । अवस्थाय पुरं सर्वे विविशुः परमर्द्धयः॥ ५४॥
श्रीदामनामा रतितुल्यरूपा रामाय दत्ता सुमनोभिरामा।।
रामामिमां प्राप्य परं स रेमे मेरुप्रभावः कृतपाणियोगः ॥ ५५ ॥ दत्ता तथा रत्नरथेन जाता स्वयं दशास्यक्षणकरणाय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org