SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । चतुर्णवतितम पर्व । मनोरमार्थप्रतिपन्ननामा तयोश्च वृत्ता परिणीतिरुद्या ॥ ५६ ॥ एवं प्रचंडा अपि यान्ति नाम रत्नान्यनर्धाणि च संश्रयन्ते । पुण्यानुभावेन यतो जनानां ततः कुरुवं रविनिर्मलं तत् ।। ५७ ॥ इति श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे मनोरमालंभाभिधानं नाम त्रिनवतितम पर्व ॥ ९३ ॥ अथ चतुर्णवतितमं पर्व। अन्योऽपि दक्षिणश्रेण्यां विजयार्धस्य खेचराः । शस्रांधकारिते संख्ये लक्ष्मणेन वशीकृताः ॥१॥ अत्यन्तदुःसहाः संतो महापन्नगसंनिभाः । शौयक्ष्वेडविनिमुक्ता जाता रामानुसेविनः ॥२॥ नामानि राजधानीनां तासां ख्यातानि कानिचित् । कीर्तयिष्यामि ते राजन् स्वःपुरीसमतेजसाम् ३ पुरं रविनिभं नाम तथा बन्हिप्रभं शुभम् । कांचनं मेघसंज्ञं च तथा च शिवमंदिरम् ॥ ४॥ गांधर्वगीतममतं पुरं लक्ष्मीधरं तथा । किन्नरोद्गीतसंज्ञं च जीमूतशिखरं परम् ॥ ५॥ मानुगीतं चक्राह्र विश्रुतं रथनू पुरम् । श्रीमद्वहुरवाभिख्यं चारुश्रीमलयश्रुतिम् ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy