________________
पद्मपुराणम्।
१९४
त्रिनवतितम पर्व।
रथा वरं तुरंगाश्च नागाश्च मदतोयदाः । तृणवत्तस्य वेगेन दिशो दश समाश्रिताः ॥३२॥ युद्धक्रीडां कचिच्चके शकशक्तिहलायुधः । किष्किन्धपार्थिवोऽन्यत्र परमः कपिलक्ष्मणः ॥३३॥ अपरत्र प्रभाजालपरवीरो महाजवः । लांगूलपाणिरुग्रात्मा विविधाद्भुतचेष्टितः ॥ ३४॥ एवमेतैर्महायोधैर्विजया बलं महत् । शरत्प्रभातमेघाभं भक्त्वा नीतं मरुत्समैः॥ ३५ ॥ ततोऽधिपतिना साकं विजयाद्रिभुवो नृपाः । स्वस्थानाभिमुखा नेशुः प्रक्षीणप्रधनेप्सिताः॥३६॥ दृष्ट्वा पलायमानांस्तान्वीरान् रत्नरथात्मजान् । परमामर्षसंपूर्णान्नारदः कलहप्रियः ॥ ३७॥ कृत्वा कलकलं व्याम्नि कृततालमहास्वनः । जगाद विस्फुरद्गात्रस्मितास्यो विकचेक्षणः॥३८॥ एते ते चपलाः क्रुद्धा दुश्चेष्टा मंदबुद्धयः । पलायंते न संसोढा यैर्लक्ष्मणगुणोन्नतिः ॥ ३९ ॥ दुर्विनीतान्प्रसङ्घतानरं गृह्णीतमानवाः । पराभवं तदा कृत्वा काधुना मे पलाय्यते ॥४०॥ इत्युक्ते पृष्ठतस्तेषामुपात्तजयकतियः । प्रतापपरमाधीराः प्रस्थिता ग्रहणाद्यताः॥४१॥ प्रत्यासन्नेषु तेष्वासीत्तदा रत्नपुरं पुरम् । आसन्नपार्श्वसंसक्तमहादाववनोपमम् ॥ ४२ ॥ तावत्सुकन्यका रत्नभूता तत्र मनोरमा । सखीभिरावृता दृष्टमात्रलोकमनोरमा ॥४३॥ संभ्रान्ताश्वरथारूढा महाप्रेमवशीकृता । सौमित्रिमुपसंपन्ना पौलोमीव विडोजसम् ।। ४४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org