________________
पद्मपुराणम् ।
१९३
त्रिनवतितमं पर्व |
उवाच चादरं विभ्रन् भगवन गुणकीर्त्तनम् । कुर्वन्मम कुमारैस्तैः कथं वा त्वं खलीकृतः ||१९|| प्रचंडत्वमिदं तेषां पापानां विक्षिपाम्यहम् | असमीक्षितकार्याणां क्षुद्राणां निहतात्मनाम् ||२०|| व्रज स्वास्थ्यं रजः शुद्धं तव मूर्द्धानमाश्रितम् । पादस्तु शिरसि न्यस्तो मदीयेऽसौ महामुने ॥ २१ ॥ इत्युक्त्वाऽऽहाय संरब्धो विराधितखगेश्वरम् | जगाद लक्ष्मणो रत्नपुरं गम्यं त्वरान्वितम् ॥ २२ ॥ तस्माद्देशय पंथानमित्युक्तः शरणोत्कटः । लेखैराहाय तत्सर्वान्तीव्राज्ञः खेचराधिपान् ॥ २३ ॥ महेन्द्रविंध्य किष्किंध मलयादिपुराधिपाः । विमानाच्छादिताऽऽकाशाः साकेतामागतास्ततः ॥ २४ ॥ वृतस्तैः सुमहासैन्यैर्लक्ष्मणो विजयोन्मुखः । लोकपालैर्यथा लेखो ययौ पद्मपुरःसरः ।। २५ ।। नानाशस्त्रदलग्रस्त दिवाकरमरीचयः । प्राप्ता रत्नपुरं भूपाः सितच्छत्रोपशोभिताः ॥ २६ ॥ ततः परवलं प्राप्तं ज्ञात्वा रत्नपुरो नृपः । साकं समस्तसामंतैः संख्यचचुर्विनिर्ययौ ॥ २७ ॥ तेन निष्क्रांतमात्रेण महारभसधारिणां । विस्तीर्ण दक्षिणं सैन्यं क्षणं ग्रस्तमिवाभवत् ॥ २८ ॥ चक्रक्रकचवाणासिकुंत पाशगदादिभिः । बभूव गहनं तेषां युद्धमुद्धतयोद्भवम् ।। २९ ।। अप्सरः संहति योग्य नभोदेशव्यवस्थिता । मुमोचाद्भुतयुक्तेषु स्थानेषु कुसुमांजलीः ॥ ३० ॥ ततः परबलांभोधौ सौमित्रिर्वडवानलः । विजृभितुं समायुक्तो योधयादः परिक्षयः ॥ ३१ ॥
३-१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org