________________
पद्मपुराणम् ।
१९२
त्रिनवतितमं पर्व ।
तस्मै विदितनिःशेषलोकचेष्टितबुद्धये । राजा प्रस्तुतमाचख्यौ सुखासीनाय सादरः ॥ ६ ॥ अवद्धारो जगौ राजन् विज्ञातो भवता न किम् । भ्राता युगप्रधानस्य पुंसो लांगललक्ष्मणः ॥७॥ विभ्राणः परमां लक्ष्मी लक्ष्मणश्चारुलक्षणः । चक्रानुभावविनतसमस्तप्रतिमानवः ॥ ८ ॥ तस्येयं सदृशी कन्या हृदयानंददायिनी । ज्योत्स्ना कुमदखंडस्य यथा परमसुंदरी ॥ ९ ॥ एवं प्रभाषमाणेऽस्मिन्ररत्नस्यंदनसूनवः । क्रुद्धा हरिमनोवातवेगाद्या मानशालिनः ॥ १० ॥ स्मृत्वा स्वजनघातोत्थं वैरं प्रत्यग्रमुन्नतम् | जगुः कालाग्निवद्दीप्ताः परिस्फुरितविग्रहाः ॥ ११ ॥ अद्यैव व्यतिपत्याशु समाहूय दुरीहितः । अस्माभिर्यो वितव्यस्तस्मै कन्या न दीयते ॥ १२ ॥ इत्युक्ते राजपुत्रभ्रूविकारपरिचोदितैः । किंकरौघैरवद्धारः पादाकर्षणमापितः || १३ || नभस्तलं समुत्पत्य ततः सुरमुनिद्रुतम् | साकेतायां सुमित्राजमुपसृप्तो महादुः ॥ १४ ॥ अस्य विस्तरतो वार्ता निवेद्य भुवनस्थिताम् । कन्यायाश्च विशेषेण व्यक्त कौतुकलक्षणः ॥ १५ ॥ कन्यामदर्शयंश्चित्रे चित्रां दृक्चित्तहारिणीम् | त्रैलोक्य सुंदरी शोभामेकी कृत्येव निर्मिताम् ||१६|| तां समालोक्य सौमित्रिः पुस्तनिष्कं पलोचनः । अनन्यजस्य वीरोऽपि परिप्राप्तोऽतिवश्यताम् १७ अर्चितयच्च यद्येतत्स्त्रीरत्नं न लभे ततः । इदं मे निष्फलं राज्यं शून्यं जीवितमेव वा ।। १८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org