SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । त्रिनवतितम पर्व। प्रयच्छनिच्छया तेषामाज्ञां विज्ञानसंगतः । रराज पुरि शत्रुघ्नः सुराणां वरुणो यथा ॥ ९० ॥ एवं मथुरापुयों निवेशमत्यद्भुतं च सप्तर्षीणाम् । शृण्वन् कथयन्वापि प्राप्नोति जनश्चतुष्टयं भद्रमरम् ।। साधुसमागमसक्ताः पुरुषाः सर्वमनीषितं सेवन्ते।तस्मात्साधुसमागममाश्रित्य सदारवेः समाप्तसुदीप्ता इत्यार्षे रविषेणाचार्यप्रोक्त पद्मपुराणे मथुरापुरीनिवेशकृषिदानगुणो पसर्गहननाभिधानं नाम द्विनवतितमं पर्व ॥ ९२ ॥ अथ त्रिनवतितमं पर्व । अथ रत्नपुरं नाम विजयाद्देऽस्ति दक्षिणम् । पुरं रत्नरथस्तत्र राजा विद्याधराधिपः ॥१॥ मनोरमेति तस्यास्ति दुहिता रूपशालिनी । पूर्णचंद्राननाभिख्यमहिषीकुक्षिसंभवा ॥२॥ समीक्ष्य यौवनं तस्या नवं राजा सुचेतनः । वरान्वेषणशेमुष्या बभूव परमाकुलः ॥३॥ मंत्रिभिः सह संगत्य स चक्रे संप्रधारणाम् । कस्मै योग्याय यच्छामः कुमारीमेतकामिति ॥४॥ एवं दिनेषु गच्छत्सु राज्ञि चिंतावशीकृते । कदाचिनारदः प्राप्तस्ततः स मानमाप च ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy