SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १९० द्विनवतितमं पर्व । यथाऽज्ञापयसीत्युक्त्वा शत्रुघ्नेन प्रमोदिना । समुत्पत्य नभो याताः साधवः साधुवांछिताः ७७ अथ निर्वाणधामानि परिसृत्य प्रदक्षिणाम् । मुनयो जानकीगेहमवतेरुः शुभायनाः ॥ ७८ ॥ वहंती सम्मदं तुंगं श्रद्धादिगुणशालिनी । परमानेन तान् सीता विधियुक्तमपारयत् ।। ७९ ।। जानक्या भक्तितो दत्तमन्नं सर्वगुणान्वितम् । भुक्त्वा पाणितले दत्त्वाऽऽशीर्वादं मुनयो ययुः ८० नगर्या बहिरन्त शत्रुघ्नः प्रतिमास्ततः । अतिष्ठिपज्जिनेंद्राणां प्रतिमारहितात्मनाम् ॥ ८१ ॥ सप्तर्षिप्रतिमाश्वापि काष्ठासु चतसृस्वपि । अस्थापयन्मनोज्ञांगा सर्वेतिकृतवारणाः ॥ ८२ ॥ पृष्ठे त्रिविष्टपस्यैव पुरमन्यां व्यवेशयत् । मनोज्ञां सर्वतः स्फीतां सर्वोपद्रववर्जिताम् ॥ ८३ ॥ योजनत्रयविस्तारां सर्वतस्त्रिगुणां च यत् । अधिकं मंडलत्वेन स्थितामुत्तमतेजसम् ॥ ८४ ॥ आपातालतलाद्भिन्नमूलाः पृथ्व्यो मनोहराः । परितो भांति सुमहाशालवासगृहोपमाः ॥ ८५ ॥ उद्यानान्यधिकां शोभां दधुः पुष्पफलाकुलाम् । वाप्यः पद्मोत्पलच्छन्ना जाताः शकुनिनादिता ॥ कैलाससानुसंकाशाः प्रासादाश्चारुलक्षणाः । विमानप्रतिमा रेजुः विलोचनमलिम्लुचाः ॥ ८७ ॥ सुवर्णधान्यरत्नाद्याः सम्मेदशिखरोपमाः । नरेन्द्रख्यातयः श्लाघ्या जाताः सर्वकुटुंबिनः ॥८८॥ राजानस्त्रिदशैस्तुल्या असमानविभूतयः । धर्मार्थकामसंशक्ताः साधुचेष्टापरायणाः ॥ ८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy