SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । द्विनवतितम पर्व। प्रशांतहृदयान् साधून निर्भत्स्य विहस्योद्यताः । मूढा मुढेषु दास्यति केचिदन्नं प्रयत्नतः॥६॥ इत्थमेतं निराकृत्य प्रायान्यसमागतम् । यतिनो मोहिनो देयं दास्यंत्यहितभावनाः॥ ६५ ॥ बीजं शिलातले न्यस्तं सिच्यमानं सदापि हि । अनर्थकं यथा दानं तथा शीलेषु गेहिनाम् ॥६६॥ अवज्ञाय मुनीन्गेही गेहिने यः प्रयच्छति । त्यक्त्वा स चंदनं मूढो गृह्णात्येव विभीतकम् ॥६७॥ इति ज्ञात्वा समायातं कालं दुःखमताधमम् । विधत्स्वात्महितं किंचित्स्थिरं कार्य शुभोदयम् ॥६॥ नामग्रहणकोऽस्माकं भिक्षावृत्तिमवाससाम् । परिकल्पय तत्सारं तव द्रविणसंपदः ॥ ६९ ॥ आगमिष्यति काले सा श्रांतानां त्यक्तवेश्मनाम् । भविष्यत्याश्रयो राजन् स्वगृहाशयसम्मिता ७० तस्मादानमिदं दत्त्वा वत्स त्वमधुना भज । सागरशीलनियमं कुरुजन्मार्थसंगतम् ॥ ७१ ॥ जायतां मथुरालोकः सम्यग्धर्मपरायणः । दयावात्सल्यसंपन्नो जिनशासनभावितः ॥ ७२ ॥ स्थाप्यंतां जिनबिंबानि पूजितानि गृहे गृहे । अभिषेकाः प्रवर्त्यतां विधिना पाल्यतां प्रजा ॥७३॥ सप्तर्षिप्रतिमा दिक्षु चतसृष्वपि यत्नतः । नगर्यां कुरु शत्रुघ्न तेन शांतिर्भविष्यति ॥ ७४ ॥ अद्यप्रभृति यद्हे बिंबं जैनं न विद्यते । मारी भक्षति तद्वयाघ्री यथाऽनाथं कुरंगकम् ॥ ७५ ।। यस्यांगुष्ठप्रमाणापि जैनेंद्री प्रतियातना । गृहे तस्य न मारी स्यात्तायभीता यथोरगी ॥ ७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy