SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १८८ द्विनवतितमं पर्व | आगतेषु भवत्स्वेषा समृद्धा सर्वतोऽभवत् । नष्टा प्रातेषु नलिनी यथा विशदुत्सवः ॥ ५१ ॥ इत्युक्त्वाऽचितयच्छ्राद्धः कदा नु खलु वांछितम् । अन्यं दास्यामि साधुभ्यः विधिना सुसमाहितः ॥ अथ श्रेणिक शत्रुघ्नं निरीक्ष्याऽऽनतमस्तकम् । कालानुभावमाचख्यौ यथावन्मुनिसत्तमः ||५३ || धर्मनंदनकालेषु व्ययं यातेष्वनुक्रमात् । भविष्यति प्रचंडोऽत्र निर्धर्मसमयो महान् ॥ ५४ ॥ दुःपाएँडैरिदं जैनं शासनं परमोन्नतम् | तिरोधयिष्यते क्षुद्रैर्रजोभिर्भानुर्विद्यवत् ॥ ५५ ॥ श्मशानसदृशा ग्रामाः प्रेतलोकोपमाः पुरः । क्लिष्टा जनपदाः कुत्स्या भविष्यन्ति दुरीहिता: ५६ कुकर्मनिरतैः क्रूरैथोरैरिव निरन्तरम् । दुःपाएँडैरयं लोको भविष्यति समाकुलः || ५७ ॥ महीतलं खलं द्रव्यपरिमुक्ताः कुटुंबिनः । हिंसाक्लेशसहस्राणि भविष्यंतीह संततम् ॥ ५८ ॥ पितरौ प्रति निःस्नेहाः पुत्रास्तौ च सुतान्प्रति । चौरा इव च राजानो भविष्यंति कलौ सति ५९ सुखिनोऽपि नराः केचिन्मोहयंतः परस्परम् । कथाभिर्दुर्गतीशाभी रम्यन्ते पापमानसाः ॥ ६० ॥ नक्ष्यंत्यतिशयाः सर्वे त्रिदशागमनादयः । कषायबहुले काले शत्रुघ्न ! समुपागते ।। ६१ ।। जातरूपरान् दृष्ट्वा साधून्त्रतगुणान्वितान् । संजुगुप्सां करिष्यति महामोहान्विता जनाः ॥६२॥ अप्रशस्ते प्रशस्तत्वं मन्यमानाः कुचेतसाः । भयपक्षे पतिष्यंति पतंगा इव मानवाः ॥ ६३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy