________________
१८७
पद्मपुराणमें ।
द्विनवतितम पर्व। अथ ज्ञात्वा समासनं कार्तिकी परमोत्सुकः । अर्हच्छेष्टी महादृष्टि पतुल्यपरिच्छदः ॥ ३८ ॥ नितिमुनिमाहात्म्यः स्वनिंदाकरणोद्यतः । सप्तर्षिपूजनं कर्तुं प्रस्थितो बंधुभिः समम् ॥ ३९ ॥ रथकुंजरपादाततुरंगौघसमन्वितः । पूजां योगेश्वरीं कर्तुमसौ याति स्म सत्त्वरम् ॥४०॥ समृद्धया परया युक्तः शुभध्यानपरायणः । कार्तिकामलसप्तम्यां प्राप्तः साप्तमुनि पदम् ॥४१॥ तत्राप्युत्तमसम्यक्त्वो विधाय मुनिवंदनाम् । पूजोपकरणं कर्तुमुद्यतः सर्वयत्नतः ॥ ४२ ॥ प्रपानाटकसंगीतशालादिपरिराजितम् । जातं तदाश्रमस्थानं स्वगेदेशमनोहरम् ॥ ४३ ॥ तं वृत्तांतं समाकण्ये शत्रुघ्नः स्वतुरीयकः । महातुरंगमारूढः सप्तमुन्यंतिकं ययौ ॥ ४४ ॥ मुनीनां परया भक्त्या पुत्रस्नेहाच्च पुष्कलात् । माताऽप्यस्य गता पश्चात्समुद्ग्राहितकोष्ठिका ॥४५॥ ततः प्रणम्य भक्तात्मा सम्मदी रिपुमर्दनः । मुनीन्समाप्तनियमान्पारणार्थमयाचत ॥ ४६॥ तत्रोक्तं मुनिमुख्यन नरपुंगवकल्पितम् । उपेत्य भोक्तुमाहारं संयतानां न वर्त्तते ॥४७॥ अकृताकारितां भिक्षा मनसा नानुमोदिताम् । गृह्णतां विधिना युक्तां तपः पुष्यति योगिनाम् ।। ततो जगाद शत्रुघ्नः प्रसादं मुनिपुंगवाः । ममेदं कर्तुमर्हन्ति विज्ञापकसुवत्सलाः ।। ४९ ॥ कियंतमपि कालं मे नगयोमिह तिष्ठत । शिवं सुभिक्षमेतस्यां प्रजानां येन जायते ॥५०॥ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org