________________
पद्मपुराणम् ।
द्विनवतितम पर्व । अस्मदीयोऽयमाचार्यो यत्किंचिद्वंदनोद्यतः । इति ज्ञात्वा छुतेः शिष्या दध्युः सप्तर्षिनंदनम् ।।२५।। जिनेंद्रवंदनां कृत्वा सम्यक् स्तुतिपरायणाः । यातास्ते वियदुत्पत्य स्वमाश्रमपदं पुनः ॥ २६॥ चारणश्रमणान् ज्ञात्वा मुनींस्ते मुनयः पुनः । स्वनिंदनादिना मुक्ताः साधुचित्तमुपागताः॥२७॥ अर्हद्दत्ताय याताय जिनालयमिहांतरे । द्युतिना गदितं दृष्टाः साधवः स्युस्त्त्रयोत्तमाः ॥२८॥ वंदिताः पूजिताः वा स्युर्महासत्त्वा महौजसः । मथुराकृतसंवासा मयाऽमा कृतसंकथाः ॥२९॥ महातपोधना दृष्टास्तेऽस्माभिः शुभचेष्टिताः । मुनयः परमोदारा बंद्या गगनगामिनः ॥३०॥ ततः प्रभावमाकर्ण्य साधूनां श्रावकाधिपः । तदा विषण्णहृदयः पश्चात्तापेन तप्यते ॥ ३१ ॥ धिक सोऽहमगृहीतार्थः सम्यग्दर्शनवर्जितः । अयुक्तोऽपसदाचारः न तुल्यो मेस्त्यधार्मिकः ॥३२॥ मिथ्यादृष्टिः कुतोस्त्यन्यो मत्तः प्रत्यपरोऽधुना । अभ्युत्थायाचित्वा नुत्वा साधवो यन्न तर्पिताः॥ साधुरूपं समालोक्य न मुंचत्यासनं तु यः। दृष्टापमन्यते यश्च स मिथ्यादृष्टिरुच्यते ॥ ३४ ॥ पापोऽहं पापकर्मा च पापात्मा पापभाजनम् । यो वा निंद्यतमः कश्चिज्जिनवाक्यबहिःकृतः ३५ शरीरे मर्मसंघाते तावन्मे दह्यते मनः । यावदंजलिमुद्धत्य साधवस्ते न वंदिताः ॥ ३६ ॥ अहंकारसमुत्थस्य पापस्यास्य न विद्यते । प्रायश्चित्तं परं तेषां मुनीनां वंदनादृते ।। ३७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org