SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १८५ द्विनवतितमं पर्व । युक्तं बहुप्रकारेण रसत्यागादिकेन ते । पृष्टादिनोपवासेन चकुरत्युत्कटं तपः ॥ १२ ॥ नभ निमेषमात्रेण विप्रकृष्टं विलंघ्य ते । चक्रुः पुरेषु विजय - पोदनादिषु पारणाम् ॥ १३ ॥ लब्धां परगृहे भिक्षां पाणिपात्रतलस्थिताम् । शरीरधृतिमात्राय जक्षुस्ते क्षपणोत्तमाः ॥ १४ ॥ नभोमध्यगते भानावन्यदा ते महाशमाः । साकेतामविशन् चीरा युगमात्रावलोकिनः ॥ १५ ॥ शुद्धभिक्षैषणाकूताः प्रलंबित महाभुजाः । अर्हद्दत्तगृहं प्राप्ता भ्राम्यतस्ते यथाविधि ॥ १६ ॥ अर्हदत्तश्च संप्राप्तर्थितामेतामसंभ्रमः । वर्षाकालः क चेदृक्षः क चेदं मुनिचेष्टितम् ॥ १७ ॥ प्राग्भारकंदरासिंधुतटे मूले च शालिनः । शून्यालये जिनागारे ये चान्यत्र कचित्स्थिताः ॥ १८ ॥ नगर्यां श्रमणा अस्यां नेमे समयखंडनम् । कृत्वा हिंडनशीलत्वं प्रपद्यंते सुचेष्टिताः ॥ १९ ॥ प्रतिकूलितसूत्रार्था एते तु ज्ञानवर्जिताः । निराचार्या निराचाराः कथं कालेऽत्र हिंडकाः ||२०|| अकालेऽपि किल प्राप्ताः स्नुषयाऽस्य सुभक्तया । तर्पिताः प्राप्तकान्नेन ते गृहीतार्थया तया ॥ २१ ॥ आर्हतं भवनं जग्मुः शुद्धसंयत संकुलम् । यत्र त्रिभुवनानंद: स्थापितो मुनिसुव्रतः ॥ २२ ॥ चतुरंगुलमानेन ते त्यक्तधरणीतलाः । आयांतो द्युतिना दृष्टा लब्धिप्राप्ताः प्रसाधवः ॥ २३ ॥ पद्भ्यामेव जिनागारं प्रविष्टाः श्रद्धयोद्यया । अभ्युत्थाननमस्यादिविधिना युतिनार्चिताः २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy