SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १८४ अथ द्विनवतितमं पर्व | 1 विहरन्तोऽन्यदा प्राप्ता निर्ग्रन्था मथुरां पुरीम् । गगनायनिनः सप्त सप्तसप्तिसमत्विषः ॥ १ ॥ सुरमन्युर्द्वितीयश्च श्रीमन्युरिति कीर्तितः । अन्यः श्रीनिचयो नाम तुरीयः सर्वसुंदरः ॥ २ ॥ पंचमो जयवान् ज्ञेयः षष्ठो विनयलालसः । चरमो जयमित्राख्यः सर्वे चारित्रसुंदराः ॥ ३ ॥ राज्ञः श्रीनंदनस्यैते धरणीसुंदरी भवाः । तनया जगति ख्याता गुणैः शुद्धैः प्रभापुरे ॥ ४ ॥ प्रीतिंकरमुनीन्द्रस्य देवागममुदीक्ष्यते । प्रतिबुद्धाः समं पित्रा धर्मं कर्तुं समुद्यताः ॥ ५ ॥ मासजातं नृपोऽन्यस्य राज्ये डमरमंगलम् । प्रवव्राज समं पुत्रैर्वीरः प्रीतिकरांतिके ॥ ६ ॥ केवलज्ञानमुत्पाद्य काले श्रीनंदनोऽविशत् । सप्तर्षयस्त्वमी तस्य तनया मुनिसत्तमाः ॥ ७ ॥ काले विकालवत्काले कंदवृंदाहृतान्तरे । न्यग्रोधतरुमूले ते योगं सन्मुनयः श्रिताः ।। ८ ।। तेषां तपःप्रभावेन चमरासुरनिर्मिता । मारी श्वशुरदृष्टेव नारी विटगताऽनशत् ॥ ९॥ घनजीमूतसंसक्ता मथुरा विषयोर्वरा । अकृष्टपच्य सस्यौघैः संछन्नाः सुमहाशयैः ॥ १० ॥ रोगेति परिनिर्मुक्ता मथुरानगरी शुभा । पितृदर्शनतुष्टेव रराज नविका वधूः ॥। ११ ॥ पद्मपुराणम् । Jain Education International For Private & Personal Use Only द्विनवतितमं पर्व | www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy