SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १८३ एकनवतितमं पर्व | संयमं परमं कृत्वा सम्यग्दर्शनभावितौ । मृतौ समाधिना जातौ देवेशौ कमलोत्तरे ॥ ४२ ॥ ततश्युतः समानोऽसावचलः पुण्यशेषतः । सुप्रजालोचनानंदः शत्रुघ्नोऽयमभून्नृपः ॥ ४३ ॥ तेनानेकभवप्राप्तिसंबंधेनास्य भूपतेः । बभूव परमप्रीतिर्मथुरां प्रति पार्थिव ॥ ४४ ॥ गृहस्य शाखिनो वाऽपि यस्य छायां समाश्रयेत् । स्थीयते दिनमध्येकं प्रीतिस्तत्रापि जायते ४५ किं पुनर्यत्र भूयोऽपि जन्मभिः संगतिः कृता । संसारभावयुक्तानां जीवानामीदृशी गतिः ॥४६॥ परिच्युत्या परंगोऽपि पुण्यशेषादभूदसौ । कृतांतवक्क्रविख्यातः सेनायाः पतिरूर्जितः || ४७ ॥ इतिधर्मानादेत प्राप्तौ परमसंपदः । धर्मेण रहितैर्लभ्यं न हि किंचित्सुखावहम् ॥ ४८ ॥ अनेकमपि संचिंत्य जंतुर्दुःखमलक्षये । धर्मतीर्थे श्रुते शुद्धिं जलतीर्थमनर्थकम् ॥ ४९ ॥ एवं पारंपर्यादागतामिदमद्भुतं नितान्तमुदारम् । कथितं शत्रुघ्नायनमवबुध्य बुधा भवंतु धर्मसुरक्ताः।। श्रुत्वा परमं धर्म न भवति येषां सदीहिते प्रीतिः । शुभनेत्राणां तेषां रविरुदितोऽनर्थकी भवति ५१ इत्यार्षे श्रीरविषेणाचार्य प्रोक्ते पद्मपुराणे शत्रुघ्नभवानुकीर्तनं नामैकनवतितमं पर्व ॥ ९१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy