SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ૯૮૨ एकनवतितमं पर्व | पद्मपुराणम् । यदि नामाचलं किंचिच्छृणुयाल्लोकविश्रुतम् । त्वया तस्य ततोऽभ्यासं गंतव्यं संशयोज्झितम् २९ अपो यथोचितं यातो राजपुत्रोऽपि दुःखवान् । कौशांबीबाह्यमुद्देशं प्राप्तः सच्चसमुन्नतः ॥ ३० ॥ तत्रेंद्रदत्तनामानं कोशांबात्स समुद्भवम् । ययौ कलकलाशब्दात्सेवमानं खरूलिकाम् ।। ३१ ।। विजित्य विशिखाचार्यं लब्धपूजोऽथ भूभृता । प्रवेश्य नगरीमिन्द्रदत्ताख्यां लंभितः सुताम् ||३२|| क्रमेण चानुभावेन चारुणा पूर्वकर्मणा । उपाध्याय इति ख्यातो वीरोऽसौ पार्थिवोऽभवत् ॥ ३३ ॥ अंगाद्या विषयाञ्जित्वा प्रतापी मथुरां श्रितः । बाह्योदेशे कृतावासः स्थितः कटकसंगतः ||३४|| चंद्रभद्रनृपः पुत्रमारोऽयमिति भाषितैः । सामंताः सकलास्तस्य भिन्नास्तेनार्थसंगतैः ॥ ३५ ॥ एकाकी चंद्रभद्रश्च विषादं परमं भजन् । श्यालान्संप्रेषयद्देवशब्दांतान्संधिवांछया ॥ ३६ ॥ दृष्ट्वा तं परिज्ञाय विलक्षास्त्रासमागताः । अदृष्टसेवकाः साकं धरायास्तनयैः कृताः ॥ ३७ ॥ अचलस्य समं मात्रा संजातः परमोत्सवः । राज्यं च प्रणताशेषराजकं गुणपूजितम् ॥ ३८ ॥ अन्यदा नटरंगस्य मध्ये तमपमागतम् । हन्यमानं प्रतीहारैर्दृष्ट्वाऽभिज्ञातवान्नृपः ॥ ३९ ॥ तस्मै संयुक्तमापाद्य स्रावस्ती जन्मभूमिकाम् । कृतापरंगसंज्ञाय ददावचलभूपतिः ॥ ४० ॥ तावुद्यानं गतौ क्रीडां विधातुं पुरुसंपदौ । यशः समुद्रमाचार्य दृष्ट्वा नैर्ग्रथ्यमाश्रितौ ॥ ४१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy