SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम्। एकनवतितमं पर्व। अष्टांगनिग्रहं कर्तुं नगरीतो बहिः कृतः । सेवितेनासकृदृष्टः कल्याणाख्येन साधुना ॥ १६ ॥ यदि प्रव्रजसीत्युक्त्वा तेनासौ प्रतिपन्नवान् । राज्ञः क्रूरमनुष्येभ्यो मोचितः भ्रमणोऽभवत् ॥१७॥ सोऽतिकष्टं तपः कृत्वा महाभावनयान्वितः । अभूदृतुविमानेशः किन्नु धर्मस्य दुष्करम् ॥ १८ ॥ मथुरायां महाचित्तश्चन्द्रभद्र इति प्रभुः । तस्य भार्या धरा नाम त्रयस्तस्याश्च सोदराः ॥ १९ ॥ सूर्याब्धियमुनाशब्दैर्देवान्तैर्नामाभिः स्मृता । श्रीसत्स्विन्द्रप्रभोग्रार्का मुखान्ताश्चापराः सुताः॥२०॥ द्वितीया चंद्रभद्रस्याद्वितीया कनकप्रभा । आगत्यर्तुविमानात्स तस्यां जातोऽचलाभिधः ॥२१॥ कलागुणसमृद्धोऽसौ सर्वलोकमनोहरः । बभौ देवकुभारामः सत्क्रीडाकरणोद्यतः ॥२२॥ अथान्यः कश्चिदंकाख्यः कृत्वा धर्मानुमोदनम् । स्रावस्त्यामंगिकागर्भे कंपेनापाभिधोऽभवत् ॥२३॥ कवाटजीविना तेन कंपेनाविनयान्वितः । अपो निर्घाटितो गेहादुद्राव भयदुःखितः ।। २४ ॥ अथाचलकुमारोऽसौ नितांतं दयितः पितुः । धराया भ्रातृभिस्तैश्च मुखांतैरष्टभिः सुतैः ॥२५॥ दृष्यमाणो रहो हंतुं मात्रा ज्ञात्वा पलायितः। महता कंटकेनांघ्रौ ताडितस्तिलके वने ॥२६॥ गृहीतदारुभारेण तेनापेनाथ वीक्षितम् । अतिकष्टं कणखेदादचलो निश्चलः स्थितः ॥२७॥ दारुभारं परित्यज्य तेन तस्यासिकन्यया । आकृष्टः कंटको दवा कंटकं चेति भाषितः ॥२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy