SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १८० पद्मपुराणम् । एकनवतितम पर्व। दिव्यज्ञानसमुद्रेण गणोडुशशिना ततः । गौतमेनोच्यत प्रीति यथा तत्कुरु चेतसि ॥ ३ ॥ बहवो हि भवास्तस्य तस्यामेवाभवन्ततः । तामेव प्रति सोद्रेक स्नेहमेष न्यषेवत ॥ ४ ॥ संसारार्णवसंसेवी जीवः कर्मस्वभावतः । जंबूमवीपभरते मथुरां समुपागतः ॥५॥ क्रूरो यमुनदेवाख्यो धर्मैकान्तपराङ्मुखः । स प्रेत्य क्रोडवालेयवायसत्वान्यसेवत ॥६॥ अजत्वं च परिप्राप्तो मृतो भवनदाहतः । महिषो जलवाहोम्भूदायते गबले वहन् ॥ ७ ॥ षड्डारान्महिषो भूत्वा दुःखप्रापणसंगतः । पंचकृत्वो मनुष्यत्वं दुःकुलेष्वधनोऽभजत् ॥ ८॥ मध्यकर्मसमाचाराः प्राप्यार्यत्वं मनुष्यताम् । प्राणिनः प्रतिपद्यते किंचित्कर्मपरिक्षयम् ॥९॥ ततः कुलंधराभिख्यः साधुसेवापरायणः । विप्रोऽसावभवद्रूपी शीलसेवाविवर्जितः ॥ १० ॥ अशंकित इव स्वामी पुरस्तस्या जयाशया । यातो देशांतरं तस्य महिषी ललिताभिधा ॥११॥ प्रासादस्था कदाचित्सा वातायनगतेक्षणा । निरैक्षत तकं विषं दुचेष्टं कृतकारणम् ॥ १२ ॥ सा तं क्रीडतमालोक्य मनोभवशराहता। आनाययद्रहोत्यंतमाप्तया चित्तहारिणम् ॥ १३ ॥ तस्या एकासने चासावुपविष्टो नृपश्च सः । अज्ञातागमनोऽपश्यत्सहसा तद्विचेष्टितम् ।। १४ ॥ मायाप्रवीणया तावद्देव्या कंदितमुन्नतम् । वन्दिकोऽयमिति त्रस्तो गृहीतश्च भटैरसौ ॥ १५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy