________________
पद्मपुराणम् ।
१७९
नवतितमं पर्व। तमुपात्तजयं शूरं प्रत्यायातं महाहवात् । समभ्यनंदन हृष्टा बलचक्रधरादयः ॥ २५ ॥ पूर्णाशा सुप्रजाश्चासौ विधाय जिनपूजनम् । धार्मिकेभ्यो महादानं दुःखितेभ्यस्तथाऽददात् २६
यद्यपि महाभिरामा साकेता कांचनोज्ज्वलैः प्रासादैः।
धेनुरिव सर्वकामप्रदानचतुरा त्रिविष्टपोपभोगा ॥ २७॥ शत्रुघ्नकुमारोऽसौ मथुरापुर्या सुरक्तहृदयोऽत्यन्तम् ।
न तथापि धृति भेजे वैदेह्या विरहितो तथासीद्रामः ॥२८॥ स्वप्न इव भवति चारुसंयोगः प्राणिनां यदा तनुकालः।
जनयति परमं तापं निदाघरविरश्मिजनितादधिकम् ॥ २९ ॥ इत्योर्ष रविषणाचार्यप्रोक्ते श्रीपद्मपुराणे मथुरोपसर्गाभिधानं नाम नवतितमं पर्व ॥९॥
अथैकनवतितमं पर्व। अथ राजगृहस्वामी जगादाद्भुतकौतुकः । भगवन्केन कार्येण तामेवासावयाचत ॥ १॥ बहवो राजधान्योऽन्याः सन्ति स्वर्लोकसंनिभाः । तत्र शत्रुघ्नवीरस्य का प्रीतिर्मथुरां प्रति ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org