________________
पद्मपुराणम् ।
नवतितमं पर्व ।
सुरासुरपिशाचाद्या बिभ्यति प्रतिचारिणाम् । तावद्यावन्न ते तीक्ष्णं निश्वयासिं जहंत्यहो ॥ १२ ॥ मद्यामिषनिवृत्तस्य तावद्भस्तशतांतरम् । लंघयंति न दुःसत्त्वा यावत्सालोऽस्य नैयमः ॥ १३ ॥ कालाग्निर्नाम रुद्राणां दारुणो न श्रुतस्त्वया । शक्तो दयितया साकं निर्विद्यो निधने गतः १४ ब्रज वा किं तवैतेन कुरु कृत्यं मनीषितम् । ज्ञास्यामि स्वयमेवाहं कर्त्तव्यं मित्रविद्विषः ।। १५ ।। इत्युक्त्वा खं व्यतिक्रम्य मथुरायां सुदुर्मनाः । ऐक्षतोत्सवमत्यंतं महान्तं सर्वलोकगम् ॥ १६ ॥ अचितयच्च लोकोऽयमकृतज्ञो महाखलः । स्थाने राष्ट्रे च यद्दन्यस्थाने तोषमितः परम् ॥ १७ ॥ बाहुच्छायां समाश्रित्य सुचिरं सुरसौख्यवान् । स्थितो यः स कथं लोको मधोर्मृत्योर्न दुःखितः ॥ प्रबीरः कातरैः शूरसहस्रेण च पण्डितः । सेव्यः किंचिद्भजेन्मूर्खमकृतज्ञं परित्यजेत् ॥ १९ ॥ आस्तां तावदसौ राजा स्निग्धो मे येन सूदितः । संस्थानं राष्ट्रमेवैतत्क्षयं तावन्नयाम्यहम् २० इति ध्यात्वा महारौद्रः क्रोधसंभारचोदितः । उपसर्ग समारेभे कर्त्तुं लोकस्य दुःसहम् ॥ २१ ॥ विकृत्य सुमहारोगांल्लोकं दग्धुं समुद्यतः । क्षयदाव इवोदारं कक्ष्यं कारुण्यवर्जितः ॥ २२ ॥ यत्रैव यः स्थितः स्थाने निविष्टः शयितोऽपि वा । अचलस्तत्र तत्रैव दीर्घनिद्रामसावितः २३ उपसर्ग समालोक्य कुलदैवत चोदितः । अयोध्यानगरी यातः शत्रुघ्नः साधनान्वितः ॥ २४ ॥
Jain Education International
१७८
For Private & Personal Use Only
www.jainelibrary.org