________________
पंतपुराणम्। .: १७७
नवतितमं पर्व । अथ नवतितमं पर्व। ततोऽरिघ्नानुभावेन विफलं तेजसोज्झितम् । अमोघमपि तद्दिव्यं शूलरत्नं विधिच्युतम् ॥ १॥ वहन्खेदं च शोकं च त्रपां च जवमुक्तवत् । स्वामिनोऽसुरनाथस्य चमरस्यांतिकं ययौ ॥ २ ॥ मरणे कथिते तेन मधोश्चमरपुंगवः । आहतः खेदशोकाभ्यां तत्सौहार्दगतस्मृतिः ॥ ३ ॥ रसातलात्समुत्थाय त्वरावानतिभासुरः । प्रवृत्तो मथुरां गंतुमसौ संरंभसंगतः ॥ ४ ॥ भ्राम्यन्नथ सुपर्णेन्द्रो वेणुधारी तमैक्षत । अपृच्छत्क दैत्येंद्र गमनं प्रस्तुतं त्वया ॥ ५॥ ऊचेऽसौ परमं मित्रं येन मे निहतं मधुः । सजनस्यास्य वैषम्य विधातुमहमुद्यतः ॥ ६॥ .. सुपर्णेशो जगौ किं न विशल्यासंभवं त्वया । माहात्म्यं निहितं कर्णे येनैवमभिलक्ष्यसि ॥ ७॥ जगादासावतिक्रांताः कालास्ते परमाद्भुताः । अचिंत्यं येन माहात्म्यं विशल्यायास्तथाविधम् ।। कौमारव्रतयुक्तासावासीदद्भुतकारिणी । योगेन जनितेदानी निर्विषेव भुजंगिका ॥ ९॥ नियताचारयुक्तानां प्रभवंति मनीषिणाम् । भावा निरतिचाराणां श्लाघ्याः पूर्वकपुण्यजा ॥१०॥ जितं विशल्यया तावद्गर्वमाश्रितया परम् । यावत्रारायणस्यास्यं न दृष्टं मदनावहम् ॥११॥
३-१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org