SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १७६ नवाशीतितमं पर्व | एवं सद्ध्यानमारुह्य त्यक्त्वा ग्रंथं द्वयात्मकम् । द्रव्यतो गजपृष्ठस्थो मधुः केशानपानयत् ॥ १११ ॥ गाढक्षतशरीरोऽसौ धृतिं परमदुर्धराम् । अध्यासीनः कृतोत्सर्गः कायादेः सुविशुद्धधीः ॥ ११२ ॥ शत्रुघ्नोऽपि तदाऽऽगत्य नमस्कारपरायणः । क्षन्तव्यं च त्वया साधो मम दुष्कृतकारिणः ११३ अमराप्सरसः सख्यं निरीक्षितुमुपागताः । पुष्पाणि मुमुचुस्तस्मै विस्मिता भावतत्पराः ॥ ११४॥ ततः समाधि समुपेत्य कालं कृत्वा मधुस्तत्क्षणमात्रकेण || महासुखभोधिनिमग्नचेताः सनत्कुमारे विबुधोत्तमोऽभूत् ॥ ११५ ॥ शत्रुघ्नवीरोऽप्यभवत्कृतार्थो विवेश मोदी मथुरां सुतेजाः ॥ स्थितश्च तस्यां गजसंज्ञितायां पुरीव मेघेश्वरसुंदरोऽसौ ॥ एवं जनस्य स्वविधानभाजो भवे भवत्यात्मनि दिव्यरूपम् ॥ तस्मात्सदा कर्म शुभं कुरुध्वं खेः परां येन रुचि प्रयातः ॥ ११७ ॥ इत्यार्षे रविषेणाचार्यप्रोक्ते पद्मपुराणे मधुसुन्दरवधाभिधानं नाम नवाशीतितमं पर्व | ११६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy