________________
पद्मपुराणम् ।
१७५
नवाशीतितमं पर्व |
अशाश्वते समस्तेऽस्मिन्नारंभे दुःखदायिनि । कर्मैकमेव संसारे शस्यते धर्मकारणम् ।। ९८ ।। जन्म सुकृती प्राप्य धर्मे दत्ते न यो मतिम् । स मोहकर्मणा जंतुर्वचितः परमार्थतः ।। ९९ ।। ध्रुवं पुनर्भवं ज्ञात्वा पापेनात्महितं मया । न कृतं स्ववशे काले धिङ्मां मूढं प्रमादिनम् ॥ १०० ॥ आत्माधीनस्य पापस्य कथं जाता न मे सुधीः । पुरस्कृतोऽरिणेदानीं किं करोमि हताशकः १०१ प्रदी भवने कीहक्तडागखननादरः । को वा भुजंगदष्टस्य कालो मंत्रस्य साधने ॥ १०२ ॥ सर्वथा थावदेतस्मिन्समये स्वार्थकारणम् । शुभं मनःसमाधानं कुर्वे तावदनाकुलः || १०३ ॥ अद्भोऽथ विमुक्तेभ्य आचार्येभ्यस्तथा त्रिधा । उपाध्यायगुरुभ्यश्च साधुभ्यश्च नमोनमः १०४ अर्हन्तोऽथ विमुक्ताश्च साधवः केवलीरितः । धर्मश्च मंगलं शश्वदुत्तमं मे चतुष्टयम् ॥ १०५ ॥ तृतीयेषु त्रिपंचानभूमिषु । अर्हतां लोकनाथानामेषोऽस्मि प्रणतीत्रिधा ॥ १०६ ॥ यावज्जीवं सहावद्यं योगं मुंचे न चात्मकम् । निंदामि च पुरोपात्तं प्रत्याख्यानपरायणः॥ १०७॥ अनादौ भवकांतारे यन्मया समुपार्जितम् । मिथ्या दुष्कृतमेतन्मे स्थितोऽहं तत्वसंगतौ ॥ १०८ ॥ व्युत्सृजाम्येष हातव्यमुपादेयमुपाददे । ज्ञानं दर्शनमात्मा मे शेषं संयोगलक्षणम् ॥ १०९ ॥ संस्तरः परमार्थेन न तृणं न च भूः शुभा । मत्या कलुषया मुक्तो जीव एव हि संस्तरः॥११०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org