________________
पद्मपुराणम् ।
नवाशीतितमं पर्व । तावदेव प्रपद्यते भंग भीत्याऽनुगामिनः । यावत्स्वामिनमीक्षते न पुरो विकचाननम् ॥ ८५ ॥ अथोत्तमरथारूढो दिव्यं कार्मुकमाश्रयन् । हारराजितवक्षस्को मुकुटी लोलकुंडलः ॥ ८६ ॥ शरदादित्यसंकाशो निःप्रत्यूहगतिः प्रभुः । व्रजन्नभिमुखः शत्रोरत्युग्रक्रोधसंगतः ॥ ८७ ॥ तदा शतानि योधानां बहूनि दहति क्षणात् । संशुष्कपत्रकूटानि यथा दावोऽरिमर्दनः ॥ ८८ ॥ न कश्चिदग्रतस्तस्य रणे वीरोऽवतिष्ठते । जिन शासनवीरस्य यथान्यमतदूषितः ॥ ८९ ॥ योऽपि तेन समं योद्धं कश्चिद्वांछति मानवान् । सोऽपि दंतीव सिंहाग्रे विध्वंसं व्रजति क्षणात् ॥ उन्मत्तसदृशं जातं तत्सैन्यं परमाकुलम् । निपतत्क्षतभूयिष्टं मधु शरणमाश्रितम् ॥ ९१ ॥ रंहसा गच्छतस्तस्य मधुश्चिच्छेद काननम् । रथाश्वास्तस्य तेनापि विलुप्ताः क्षुरसायकैः ॥१२॥ ततः संभ्रांतचेतस्को मधुः क्षितिधरोपमम् । वारुणेंद्रं समारुह्य क्रोधज्वलितविग्रहः ॥ ९३ ॥ प्रच्छादयितुमुद्युक्तः शरैरंतरवर्जितैः । महामेघ इवादित्यबिंब दशरथात्मजम् ॥ ९४ ॥ छिंदानेन शरान्बद्धकवचं तस्य पुष्कलः । रणप्राघूर्णकाचारः कृतः शत्रुघ्नसूरिणा ॥ ९५ ॥ अथ शुलायुधत्यक्तं ज्ञात्वाऽऽत्मानं विबोधवान् । सुतमृत्युमहाशोको वीक्ष्य शत्रु सुर्दुर्जयम्॥९६॥ बुद्धाऽऽत्मनोऽवसानं च कर्म च क्षीणमूर्जितम् । नैपँथ्यं वचनं धीरः सस्मारानुशयान्वितः ९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org