SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १७३ नवाशीतितमं पर्व। अवारितगतिस्तत्र रणे क्रीडां चकार सः । स्वयंभुरमणोद्याने त्रिविष्टपपतिर्यथा ॥ ७२ ॥ अथ तं गोचरीकृत्य कुमारो लवणार्णवः । बाणैर्घन इवांभोभिस्तिरश्चक्रे महाधरम् ॥ ७३ ।। सोऽप्याकर्णसमाकृष्टैः शरैराशीविषप्रभैः । चिच्छेद सायकानस्य तैश्च व्याप्तं महीनमः ॥७४ ॥ अन्योन्यं विरथीकृत्य सिंहाविव वलोत्कटौ । करिपृष्ठसमारूढौ सरोषौ चक्रतुयुधम् ॥ ५ ॥ विताडितः कृतांतः सः प्रथमं वक्षसीषुणा । चकार कवचं शत्रु शरैरस्त्रैरनंतरम् ॥ ७६ ॥ ततस्तोमरमुद्यम्य कृतांतवदनं पुनः । लवणोऽताडयत्क्रोधविस्फुरल्लोचनातिः ॥ ७७ ॥ स्वशोणितनिषेकाक्तौ महासंरंभवर्तिनौ । किंशुकानोकहच्छायौ प्रवीरौ तौ विरेजतुः ॥ ७८ ॥ गदासिचक्रसंपातो बभूव तुमुलस्तयोः । परस्परबलोन्मादविषादकरणोत्कटः ॥ ७९ ॥ दत्तयुद्धश्चिरं शक्त्या ताडितो लवणार्णवः । वक्षस्यपासृतः क्षोणी स्वर्गीव सुकृतक्षयात् ॥ ८ ॥ पतितं तनयं वीक्ष्य मधुराहवमस्तके । धावन्कृतावक्त्राय शत्रुघ्नेन विशब्दितः ॥ ८१॥ शत्रुघ्नगिरिणा रुद्धो मधुवाहो व्यवर्द्धत । गृहीतः शोककोपाभ्यां दुःसहाभ्यामुपक्रमन् ॥ ८२॥ दृष्टिमाशीविषस्यैव तस्याशक्तं निरीक्षितुम् । सैन्यं व्यद्रवदत्युग्राद्वाताद्वा न दलौघवत् ॥ ८३ ॥ तस्याभिमुखमालोक्य व्रजंतं सुप्रजःसुतम् । अभिमानसमारूढा योधाः प्रत्यागता मुहुः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy