________________
पद्मपुराणम् ।
१७२
नवाशीतितमं पर्व ।
परेणाथ समाक्रांतां विज्ञाय नगरीं जनः । लंकायामंगदप्राप्तौ यथा क्षोभमितो भयात् ॥ ५९ ॥ त्रासात्तरलनेत्राणां स्त्रीणामाकुलतायुषाम् । सद्यः प्रचलिता गर्भा हृदयेन समं भृशम् || ६० ॥ महाकलकलारावप्रेरणे प्रतिबोधिनः । उद्ययुः सहसा शूराः सिंहा इव भयोज्झिताः ॥ ६१ ॥ विध्वस्य शब्दमात्रेण शत्रुलोकं मधोगृहम् | सुप्रभातनयोऽविशदत्यंतोर्जितविक्रमः ॥ ६२ ॥ तत्र दिव्यायुधाकीर्णां सुतेजाः परिपालयन् । शालामवस्थितः प्रीतो यथार्ह समितोदयः ||६३ || मधुराभिर्मनोज्ञाभिर्भारतीभिरशेषतः । नीतो लोकः समाश्वासं जहौ त्राससमागमम् ॥ ६४ ॥ शत्रुघ्नं मथुरां ज्ञात्वा प्रविष्टं मधुसुंदरः । निरैद्रावणवत्कोपादुद्यानात्स महाबलः ।। ६५ । शत्रुघ्नरक्षितं स्थानं प्रवेष्टुं मधुपार्थिवः । निर्ग्रन्थरक्षितं मोहो यथा शक्नोति नो तदा ॥ ६६ ॥ प्रवेशं विविधोपायैरलब्ध्वाप्यभिमानवान् । रहितश्चापि शूलेन न संधि वृणुते मधुः ॥ ६७ ॥ असहंतः परानीकं द्रुष्टुं दर्पसमुद्धरम् । शत्रुघ्नसैनिकाः सैन्यात्स्वस्मान्निर्ययुरश्विनः || ६८ ॥ तत्राहवसमारंभे शात्रुघ्नं सकलं बलम् । प्राप्तं जातश्च संयोगस्तयोः सैन्यसमुद्रयोः ॥ ६९ ॥ रथेभसादिपादाताः समर्था विविधायुधाः । रथेभैः सादिपादातैरालग्नाः सह वेगिभिः ॥ ७० ॥ असहन्परसैन्यस्य दर्पं रौद्रमहास्वनम् । कृतांतकुटिलोऽविक्षद्वेगवानाहितं बलम् ॥ ७१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org