________________
पद्मपुराणम् ।
नवाशीतितम पर्व ।
करेण बलवान्दंती पातयेद्धरणीरुहान । प्रक्षरद्दानधारोऽपि सिंहेन तु निपात्यते ॥४६॥ लक्ष्मीप्रतापसंपन्नः सत्त्ववान्बलवान्बुधः । सुसहायश्च शत्रुघ्नः शत्रुघ्नो जायते ध्रुवम् ॥४७॥ अथ मंत्रिजनाऽऽदेशान्मथुरानगरीं गताः । प्रत्यावृत्य चरा वात्तों वदंति स्म यथाविधि ॥४८॥ शृणु देवाऽस्ति पूर्वस्यां मथुरा नगरी दिशि । उद्यानं रम्यमत्यंतं राजलोकसमावृतम् ॥ ४९ ॥ मध्येऽमरकुरोयेद्वत्कुवेरच्छदसंज्ञितम् । इच्छापूरणसंपन्नं विपुलं राजतेतराम् ॥ ५० ॥ जयंत्यात्र महादेव्या सहितस्याद्य वर्त्तते । वारीगतगजस्येव स्पर्शवश्यस्य भूभृतः ॥५१॥ कामिनो दिवसः षष्ठत्यक्ताशेषान्यकर्मणः । महासुस्थाभिमानस्य प्रमादवशवर्जिनः ॥ ५२ ॥ प्रतिज्ञां तव नो वेद नागमं कामवश्यधीः । बुधैरुपेक्षितो मोहात्स भिषग्भिः सरोगवत् ॥ ५३॥ प्रस्तावे यदि नैतस्मिन्मथुराऽध्यास्यते ततः । अन्यपुंवाहिनीवाहेदैःसहः स्यान्मधुदधिः ॥५४॥ वचनं तत्समाकर्ण्य शत्रुघ्नः क्रमकोविदः । ययौ शतसहस्रेण ययूनां मथुरां पुरीम् ॥ ५५ ॥ अर्द्धरात्रे व्यतीतेऽसौ परलोके प्रमादिनि । निवृत्य प्राविशद्वारस्थानं लब्धमहोदयः ॥ ५६ ॥ आसीद्योगीव शत्रुघ्नः द्वारं कर्मेव चूर्णितम् । प्राप्ताऽत्यंतमनोज्ञा च मथुरा सिद्धिभूरिव ॥५७॥ देवो जयति शत्रुघ्नः श्रीमान्दशरथात्मजः । बंदिनामिति वक्त्रेभ्यो महानादः समुद्ययौ ॥५८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org