________________
१७०
नवाशीतितमं पर्व ।
नानायानसमारूढैर्नरराजशतैर्वृतः । शुशुभे स वृतो देवैः सहस्रनयनो यथा ॥ ३३ ॥ श्री नावासानुरूप्रीतिं भ्रातरं स समागतम् । जगौ पूज्य निवर्त्तस्व द्राग्व्रजाम्यनपेक्षतः ॥ ३४ ॥ लक्ष्मणेन धनूरत्नं समुद्रावर्तमर्पितम् । तस्मै ज्वलनवक्राश्च शराः पवनरंहसः ।। ३५ ।। कृतांतवक्रमात्माभं नियोज्यास्मै चमूपतिम् । लक्ष्मणेन समं रामचिंतायुक्तो न्यवर्तत ॥ ३६ ॥ राजन्नरिनवीरोऽपि महाबलसमन्वितः । मथुरां प्रति याति स्म मधुराजेन पालिताम् ॥ ३७ ॥ क्रमेण पुण्यभागायास्तीरं प्राप्य ससंभ्रमम् । सैन्यं न्यवेशयदूरमध्वानं समुपागतम् ॥ ३८ ॥ कृताशेषक्रियस्तत्र मंत्रिवर्गो गतश्रमः । चकार संशयापन्नो मंत्रमत्यंत सूक्ष्मधीः ॥ ३९ ॥ मधुभंगकृताशंसां पश्यतास्य धियं शिशोः । केवलं योऽभिमानेन प्रवृत्तो नयवर्जिताः ॥ ४० ॥ महावीर्यः पुरा येन मांधाता निर्जितो रणे । खैचरैरपि दुःसाध्यो जय्यः सोऽस्य कथं मधुः ४१ चलत्पादाततुं गोर्मिशस्त्रग्राहकुलाकुलम् । कथं वांछति बाहुभ्यां तरितुं मधुसागरम् ॥ ४२ ॥ पादात सुमहावृक्षं मत्तवारणभीषणम् । प्रविश्य मधुकांतारं को निःक्रामति जीवितः ॥ ४३ ॥ एवमुक्तं समाकर्ण्य कृतांतकुटिलोऽवदत् । यूयं भीताः किमित्येवं त्यक्त्वा मानसमुन्नतिम् ||४४ || अमोघेन किलाऽऽरूढो गर्व शूलेन यद्यपि । हंतुं तथापि तं शक्तो मधुं शत्रुघ्नसुंदरः ।। ४५ ।।
1
पद्मपुराणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org