________________
पद्मपुराणम् ।
१६८
नवाशीतितमं पर्व । यस्यार्थं कुर्वतां मंत्रमस्माकं वर्त्तते समा । रात्रावपि न विंदामो निद्रां चिंतासमाकुलाः ॥ ७ ॥ हरीणामन्वयो येन जायमानेन पुष्कलः । नीतः परममुद्योतं लोकस्तिग्मांशुना यथा ॥ ८ ॥ खेचरैरपि दुःसाध्यो लवणार्णवसंज्ञकः । सुतो यस्य कथं शूरं तं विजेतुं भवान् क्षमः ॥ ९ ॥ ततो जगाद शत्रुघ्नः किमत्र बहुभाषितैः । प्रयच्छ मथुरां मह्यं ग्रहीष्यामि ततः स्वयम् ॥ १० ॥ मधूकमिव कुंता मधुं यदि न संयुगे । ततो दशरथेनाहं पित्रा मानं वहामि नो ॥ ११ ॥ शरभः सिंहसंघातमिव तस्य बलं यदि । न चूर्णयामि न भ्राता युष्माकमहकं तदा ॥ १२ ॥ नास्मि सुप्रजसः कुक्षौ संभूतो यदि तं रिपुम् । न यामि दीर्घनिद्रां न त्वदाशीः कृतपालनः ॥ १३॥ एवमास्थां समारूढे तस्मिन्नुत्तमतेजसि । विस्मयं परमं प्राप्ता विद्याधरमहेश्वराः ॥ १४ ॥ ततस्तमुद्यतं गंतुं समुत्सार्य हलायुधः । जगाद दक्षिणामेकां धीर मे यच्छ याचितः ॥ १५ ॥ मरिनोऽब्रवीद्दाता त्वमनन्यसमो विभुः । याचसे किं त्वतः श्लाघ्यं परं मेऽन्यद्भविष्यति ॥ १६ ॥ असूनामपि नाथस्त्वं का कथाsन्यत्र वस्तुनि । युद्धविघ्नं विमुच्यैकं ब्रूहि किं करवाणि वः ॥ १७॥ ध्यात्वा जगाद पद्माभो वत्सकासौ त्वया मधुः । रहितः शूलरत्नेन क्षोभ्यः छिद्रे मदर्थनात् १८ यथाज्ञापयसीत्युक्त्वा सिद्धान्नत्वा समर्च्य च । भक्त्वा मातरमागत्य नत्वाऽपृच्छत्सुखस्थिताम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org