________________
पद्मपुराणम् ।
१६७
नवाशीतितमं पर्व । रामानुमत्या बहुलब्धहर्षा-स्तस्थुर्यथास्वं निलयेषु दीप्ताः ॥ ४३ ॥ पुण्यानुभावस्य फलं विशालं विज्ञाय सम्यग्जगति प्रसिद्धम् ॥
कुर्वन्ति ये धर्मरति मनुष्या रवेर्युतिं ते जनयंति तन्वम् ॥ ४४ ॥ इत्याचे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे राज्याभिषेकाभिधानं विभागदर्शनं नाम अष्टाशीतितमं पर्व ।
अथ नवाशीतितमं पर्व। अथ सम्यग्वहन प्रीतिं पद्माभो लक्ष्मणस्तथा । ऊचे शत्रुघ्नमिष्टं त्वं विषयं रुचिमानय ॥१॥ गृह्णासि किमयोध्यार्द्ध साधु वा पोदनापुरम् । किं वा राजगृहं रम्यं यदि वा पौंद्रसुंदरम् ॥२॥ इत्याद्याः शतशस्तस्य राजधान्यः सुतेजसः । उपदिष्टा न चास्यैता निदद्युर्मानसे पदम् ॥३॥ मथुरायाचने तेन कृते पद्मः पुनर्जगौ । मधुर्नाम च तत्स्वामी त्वया ज्ञातो न किं रिपुः ॥४॥ जामाता रावणस्यासावनेकाहवशोभितः । शूलं चमरनाथेन यस्य दत्तमनिष्फलम् ॥५॥ अमररपि दुर्वारं तन्निदाघार्कदुःसहम् । कृत्वा प्राणान् सहस्रस्य शूलमेति पुनः करम् ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org