________________
पद्मपुराणम् ।
अष्टाशीतितमं पर्व ।
मुकुटांगद केयूरहारकुंडलभूषितौ । दिव्यस्रग्वत्रसंपन्नौ वरालेपनचर्वितौ ॥ ३१ ॥ सीरपाणिर्जयत्वेषी जयतु लक्ष्मणः । इति तौ जयशब्देन खेचरैरभिनंदितौ ॥ ३२ ॥ राजेंद्रयोस्तयोः कृत्वा खेचरेंद्रा महोत्सवम् । गत्वाऽभिषिषिचुर्देवीं स्वामिनीं नु विदेहजाम् ३३ महासौभाग्यसंपन्ना पूर्वमेव हि साऽभवत् । प्रधाना सर्वदेवीनामभिषेकाद्विशेषतः ॥ ३४ ॥ आनंद्य जयशब्देन वैदेहीमभिषेचनम् । ऋद्वद्या चक्रुर्विशल्या याश्चक्रिपत्नीविभुत्त्वकृत् ।। ३५ ।। स्वामिनी लक्ष्मणस्यापि प्राणदानाद्बभूव या । मर्यादामात्रकं तस्यास्तज्जातमभिषेचनम् ||३६|| जय त्रिखंडनाथस्य लक्ष्मणस्याथ सुंदरि । इति तां जयशब्देन तेऽभिनंद्य स्थिताः सुखम् ||३७|| त्रिकूटशिखरे राज्यं ददौ रामो विभीषणे । सुग्रीवस्य च किष्किंधे वानरध्वजभूभृतः ॥ ३८ ॥ श्रीपर्वते मरुज्जस्य गिरौ श्रीनगरे पुरे । विराधितनरेन्द्रस्य गोत्रक्रमनिषेविते ॥ ३९ ॥ महार्णवोर्मिसंतानचुंबिते बहुकौतुके । कैकिधे च पुरे स्फीतं पतित्वं नलनीलयोः ॥ ४० ॥ विजयार्द्धदक्षिणे स्थाने प्रख्याते रथनूपुरे । राज्यं जनकपुत्रस्य प्रणतोग्रनभश्वरम् ॥ ४१ ॥ देवोपगीतनगरे कृतो रत्नजटी नृपः । शेषा अपि यथायोग्यं विषयस्वामिनः कृताः ॥ ४२ ॥ एवं स्वपुण्योदय योग्य माता राज्यं नरेंद्राश्चिरमप्रकंपम् ॥
Jain Education International
१६६
For Private & Personal Use Only
www.jainelibrary.org