________________
पद्मपुराणम् ।
१६५
अष्टाशीतितमं पर्व | केकयीनंदनस्यैव प्रारब्धगुणकीर्त्तनाः । सुखदुःखरसोन्मिश्रा मुहूर्त्त पार्थिवा स्थिताः ॥ १८ ॥ ततः समुत्थिते पद्मे सोद्वेगे लक्ष्मणे तथा । यथा स्वमास्पदं याता नरेन्द्रा बहुविस्मयाः ॥ १९ ॥ संप्रधार्य पुनः प्राप्ताः कर्त्तव्या हितचेतसः । पद्मनाभं नमस्कृत्य प्रीत्या वचनमब्रुवन् ॥ २० ॥ विदुषामज्ञकानां वा प्रसादं कुरु नाथ नः । राज्याभिषेकमन्विच्छ सुरलोकसमुद्युति ॥ २१ ॥ विदधत् फलत्वं नश्चक्षुषोर्हृदयस्य च । तवाभिषेकसौख्येन भरितस्य नरोत्तम ॥ २२ ॥ विभ्रत्सप्तगुणैश्वर्यं राजराजो दिने दिने । पादौ नमति यत्रैष तत्र राज्येन किं मम ॥ २३ ॥ प्रतिकूलमिदं वाच्यं न भवद्भिर्मयीदृशम् । स्वेच्छाविधानमात्रं हि नंनु राज्यमुदाहृतम् ॥ २४ ॥ इत्युक्ते जयशब्देन पद्माभमभिनंद्य ते । गत्वा नारायणं प्रोचुः स चायातो बलांतिकम् ॥ २५ ॥ प्रावृडारंभसंभूतडंबरांभोदनिःस्वनाः । ततः समाहता भेर्यः शंखशब्दपुरःसराः ॥ २६ ॥ दुंदुभ्यानकझल्लुर्य स्तूर्याणि प्रवराणि च । मुमुचुर्नादमुत्तुंगं वंशादिस्वनसंगतम् ।। २७ ।। चारुमंगलगीतानि नाट्यानि विविधानि च । प्रवृत्तानि मनोज्ञानि यच्छंति प्रमदं परम् ।। २८ ।। तस्मिन्महोत्सवे जाते स्नानीयासनवर्त्तिनौ । विभूत्या परया युक्तौ संगतौ रामलक्ष्मणौ ॥ २९ ॥ रुक्मकांचननिर्माणैर्नानारत्नमयैस्तथा । कलशैर्युक्तपद्मास्यैरभिषिक्तौ यथाविधि ॥ ३० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org