________________
१६४
अष्टाशीतितमं पर्व ।
पद्मपुराणम् ।
इन्द्रध्वजः श्रुतधरः सुचन्द्रः पृथिवीधरः । अलकः सुमतिः क्रोधः कुंदरः सत्ववान्हरिः ॥ ५ ॥ सुमित्रो धर्ममित्रायः संपूर्णेन्दुः प्रभाकरः । नघुषः सुंदनः शांतिः प्रियधर्मादयस्तथा ॥ ६ ॥ विशुद्धकुलसंभूताः सदाचारपरायणाः । सहस्राधिकसंख्याना भुवनाख्यातचेष्टिताः ॥ ७ ॥ एते हस्त्यश्वपादातं प्रवालस्वर्णमौक्तिकम् | अंतःपुरं च राज्यं च बहुजीर्णतृणं यथा ॥ ८ ॥ महाव्रतघराः शांता नानालब्धिसमागताः । आत्मध्यानानुरूपेण यथायोग्यं पदं श्रिताः ॥ ९ ॥ निष्क्रांते भरते तस्मिन्भरतोपमचेष्टिते । मेने शून्यकमात्मानं लक्ष्मणः स्मृततद्गुणः ॥ १० ॥ शोकाकुलितचेतको विषादं परमं भजन् । सूत्कारमुखरः क्लान्तलोचनेंदीवरद्युतिः ॥ ११ ॥ विराधितभुजस्तंभ कृतावष्टंभविग्रहः । तथापि प्रज्वलन् लक्ष्म्या मंदवर्णमवोचत | १२ ॥ अधुना वर्त्तते कासौ भरतो गुणभूषणः । तरुणेन सता येन शरीरे प्रीतिरुज्झिता ॥ १३ ॥ इष्टं बंधुजनं त्यक्त्वा राज्यं च त्रिदशोपमम् । सिद्धार्थी स कथं भेजे जैनधर्मं सुदुर्धरम् ॥ १४ ॥ आह्लादयन् सदः सर्वं ततः पद्मो विधानवित् । जगाद परमं धन्यो भरतः सुमहानसौ ॥ १५ ॥ तस्यैकस्य मतिः शुद्धा तस्य जन्मार्थ संगतम् । विषान्नमिव यस्त्यक्त्वा राज्यं प्रावज्यमास्थितः॥ पूज्यता वर्ण्यतां तस्य कथं परमयोगिनः । देवेंद्रा अपि नो शक्ता यस्य वक्तुं गुणाकरम्॥ १७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org