________________
पद्मपुराणम् ।
१६२
सप्ताशीतितम पर्व। गजः संसारभीतोऽयं सच्चेष्टितपरायणः । अय॑मानो जनैः क्षोणी विजहार विशुद्धिमान् ॥४॥ लड्डुकान्मंडकान्मष्टान्विविधाश्चारुपूरिकाः। पारणासमये तस्मै ससत्कारं ददो जनः॥५॥ तनुकर्मशरीरोऽसौ संवेगाऽऽलानसंयतः । उग्रं चत्वारि वर्षाणि तपश्चके यमांकुशः ॥६॥ स्वैरं स्वैरं परित्यज्य भुक्तिमुग्रतपा गजः । सल्लेखनां परिप्राप्य ब्रह्मोत्तरमशिश्रियत् ॥७॥ वरांगनासमाकीर्णो हारकुंडलमंडितः । पूर्व सुरसुखं प्राप्तो गजः पुण्यानुभावतः ॥ ८ ॥ भरतोऽपि महातेजा महाव्रतधरो विभुः । धराधरगुरुस्त्यक्तबाह्यांतरपरिग्रहः ॥९॥ व्युत्सृष्टांगो महाधीरस्तिष्ठन्नस्तमिते रवौ । विजहार यथा न्यायं चतुराराधनोद्यतः ॥ १० ॥ अविबद्धो यथा वायुमृगेन्द्र इव निर्भयः । अकूपार इवाक्षोभ्यो निष्कंपो मंदरो यथा ॥ ११ ॥ जातरूपधरः सत्यकवचः क्षांतिसायक: । परीषहजयोयुक्तस्तपः संयत्यवतेत ॥१२॥ समः शत्रौ च मित्रे च समानः सुखदुःखयोः । उत्तमः श्रमणः सोऽभूत्समधीस्तृणरत्नयोः॥१३॥ सूचीनिचितमार्गेषु भ्राम्यतः शास्त्रपूर्वकम् । शत्रुस्थानेषु तस्याभूच्चतुरंगगुलचारिता ॥ १४ ॥ अत्यंतप्रलयं कृत्वा मोहनीयस्य कर्मणः । अवाप केवलज्ञानं लोकालोकावभासनम् ॥ १५ ॥
ईदृमाहात्म्ययुतः काले समनुक्रमेण विगतरजस्कः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org