________________
पद्मपुराणम् ।
सप्ताशीतितम पर्व। त्यक्त्वा समस्तं गृहिधर्मजालं प्राप्याऽऽर्यिका धर्ममनुत्तमं सा ॥
रराज मुक्ता धनसंगमेन शशांकलेखेव कलंकहीना ॥ २५ ॥ इतोऽभवद्भिक्षुगणः सुतेजास्तथाऽऽर्यिकाणां प्रचयोऽन्यतोऽभूत् ॥
तदा सदो भूरिसरोजयुक्तं सदः सम तद्भवति स्म कान्तम् ॥ २६ ॥ एवं जनस्तत्र बभूव नाना-व्रतक्रियासंगपवित्रचित्तः॥
___समुद्गते भव्यजनस्य कस्य रवौ प्रकाशेन न मुक्तिरस्ति ॥ २७ ॥ इत्याचे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे भरतकेकयानिष्क्रमणाभिधानं नाम षडशीतितम पर्व ।
अथ सप्ताशीतितमं पर्व । अथ साधुः प्रशांतात्मा लोकत्रयविभूषणः । अणुव्रतानि मुनिना विधिना परिलंभितः ॥ १॥ सम्यग्दर्शनसंयुक्तः संज्ञानः सत्कियोद्यतः । सागारधर्मसंपूर्णो मतंगजवरोऽभवत् ॥ २॥ पक्षमासादिभिर्भक्तच्युतः पत्रादिभिः स्वयम् । शुष्कैः स पारणं चक्रे दिनपूर्णैकवेलिकाम् ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org