________________
पद्मपुराणम् ।
१६०
षडशीतितम पर्व। अनुग्रशक्तयः केचिन्नमस्कृत्य मुनि जनाः । उपासांचक्रिरे धर्म विधिनागारसंगतम् ॥ १२ ॥ संभ्रान्ता केकया वाष्पदुर्दिनाऽऽकुलचेतना । धावन्ती पतिता भूमौ व्यामोहं च समागता १३ सुतप्रीतिभराक्रान्ता ततौऽसौ निश्चलांगिका । गोशीर्षादिपयासेकैरपि संज्ञामुपैति न ॥ १४ ॥ व्यक्तचेतनतां प्राप्य चिराय स्वयमेव सा । अरोदीत्करुणं धेनुवेत्सेनेव वियोजिता ॥ १५॥ हा मे वत्स मनोह्लाद सुविनीत गुणाकर । क प्रयातोऽसि वचनं प्रयच्छांगानि धारय ॥ १६ ॥ त्वया पुत्रक संत्यक्ता दुःखसागरवर्तिनी । कथं स्थास्यामि शोका" हा किमेतदनुष्ठितम् १७ कुर्वतीति समाक्रन्दं हलिना चक्रिणा च सा । आनीयत समाश्वासं वचनैरतिसुंदरैः ॥ १८ ॥ पुण्यवान् भरतो विद्वानंब शोकं परित्यज । आवां ननु न किं पुत्रौ तवाज्ञाकरणोद्यतौ ॥ १९ ॥ इति कातरतां कृच्छ्रात्याजिता शांतमानसा । सपत्नीवाक्यजातैश्च सा बभूव विशोकिका ॥२०॥ विबुद्धा चाकरोनिंदामात्मनः शुद्धमानसा । धिक् स्त्रीकलेवरमिदं बहुदोषपरिप्लुतम् ॥ २१ ॥ अत्यंताशुचिवीभत्सं नगरीनिझरोपमम् । करोमि कम तद्येन विमुच्ये पापकर्मतः ॥ २२ ॥ पूर्वमेव जिनोक्तेन धर्मेणाऽसौ सुभाविता । महासंवेगसंपन्ना सितैकवसनान्विता ॥ २३ ॥ सकाशे पृथिवीमत्याः सह नारीशतैत्रिभिः। दीक्षां जग्राह सम्यक्त्वं धारयंती सुनिर्मलम् ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org