________________
१५९
अथ षडशीतितमं पर्व |
साधोस्तद्वचनं श्रुत्वा सुपवित्रं तमोऽपहम् । संसारसागरे घोरे नानादुःखनिवेदनम् ॥ १ ॥ विस्मयं परमं प्राप्ता भरतानुभवोद्भवम् । पुस्तकर्मगतेवाऽऽसीत्सा सभा चेष्टितोज्झिता ॥ २ ॥ भरतोऽथ समुत्थाय प्रचलद्धारकुंडलः । प्रतापप्रथितः श्रीमान्देवेन्द्रसमविभ्रमः ॥ ३ ॥ वहन्संवेगमुत्तुंगं प्रहृकायो महामनाः । रभसान्वितमासाद्य बद्धः पाण्यन्नकुड्मलः ॥ ४ ॥ जानुसंपीडितक्षोणिः प्रणिपत्य मुनीश्वरम् । संसारवासखिन्नोऽसौ जगाद सुमनोहरम् ॥ ५ ॥ नाथ योनिसहस्रेषु संकटेषु चिरं भ्रमन् । महाध्वश्रमखिनोऽहं यच्छ मे मुक्तिकारणम् || ६ || उह्यमानाय संभूतिमरणोग्रतरंगया । मह्यं संसृतिनद्यास्त्वं हस्तालंचकरो भव || ७ || इत्युक्त्वा त्यक्तनिःशेषग्रंथपर्यङ्कबंधगः । स्वकरेणऽकरोल्लुंचं महासत्त्वसमन्वितः ॥ ८ ॥ परं सम्यक्त्वमासाद्य महाव्रतपरिग्रहः । दीक्षितो भरतो जातस्तत्क्षणेन मुनिः परः ॥ ९ ॥ साधु साध्विति देवानामंतरिक्षेऽभवत्स्वनः । पेतुः पुष्पाणि दिव्यानि भरते मुनितामिते ॥ १० ॥ सहस्रमधिकं राज्ञां भरतस्यानुरागतः । क्रमागतां श्रियं त्यक्त्वा श्रामण्यं समशिश्रियत् ॥ ११ ॥
पद्मपुराणम् ।
Jain Education International
षडशीतितमं पर्व ।
For Private & Personal Use Only
www.jainelibrary.org