SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५८ पद्मपुराणम् । पंचाशीतितमं पर्व। गोदंडमार्गसदृशे यो मरीचिः प्रवर्तते । समये दीक्षितावास्तां परित्यक्तमहाव्रतौ ॥ १६८ ॥ तावेतौ मानिनौ भानुशशांकोदयसंज्ञितौ । संसारदुःखितौ भ्रांतौ भ्रातरौ कर्मचेष्टितौ ॥ १६९ ॥ कृतस्य कर्मणो लोके सुखदुःखविधायिनः । जना निस्तपसोऽवश्यं प्राप्नुवंति फलोदयम् १७० चंद्रः कुलंकरो यश्च समाधिमरणी मृगः । सोऽयं नरपतिजोतो भरतः साधुमानसः ॥ १७१ ॥ आदित्यश्रुतिविप्रश्च कृष्टमृत्युः कुरंगकः । संप्राप्तो गजतामेष पापकर्मानुभावतः ॥ १७२ ॥ प्रमृद्य बंधनस्तंभं बलवानुद्धतः परम् । भरतालोकनात्स्मृत्वा पूर्वजन्म शमं गतः ॥ १७३ ॥ ज्ञात्वैवं गतिमागतिं च विविधां बाह्यं सुखं वा ध्रुवं । कारण्यमिदं विहाय विषमं धर्मे रमध्वं बुधाः ॥ मानुष्यं समवाप्य यैर्जिनवरप्रोक्तो न धर्मः कृत__स्ते संसारसुतृत्वमभ्युपगताः स्वार्थस्य दूरे स्थिताः ॥ १७४ ॥ जिनवरवदनविनिर्गतमुपलभ्य शिवैकदानतत्परमतुलम् । निर्जितरविरुचिसुकृतं कुरुत यतो यात निर्मलं परमपदम् ॥ १७५ ॥ इत्यार्ष रविषणाचार्यप्रोक्ते पद्मपुराणे भरतत्रिभुवनालंकारसमाध्यनुभवानुकीर्तनं नाम पञ्चाशीतितमं पर्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy