________________
पद्मपुराणम् ।
१५७
पंचाशीतितम पर्व ।
सिंहव्याघ्रमहावृक्षगंडशैलाविनाशकृत् । आसतां मानुपास्तावदुर्ग्रहः खेचरैरपि ॥ १५५ ॥ समस्तश्वापदत्रासं कुर्वन्नामोदमात्रतः । रमते गिरिकंजेषु नानापल्लवहारिषु ॥ १५६ ॥ अक्षोभ्ये विमले नानाकुसुमैरुपशोभिते । मानसे सरसि क्रीडां कुरुतेऽनुचरान्वितः ॥ १५७ ॥ विलास सेवते सारं कैलासे सुलभेक्षिते । मंदाकिन्याः मनोज्ञेषु इदेषु च परः सुखी ॥ १५८ ॥ अन्येषु च नगारण्यप्रदेशेष्वतिहारिषु । भजते क्रीडनं कांत बांधवानां महोदयः ॥ १५९ ॥ अनुवृत्तिप्रसक्तानां करेणूनां स भूरिभिः । सहस्त्रैः संगतः सौख्यं भजते यूथपोचितम् ॥१६०॥ इतस्ततश्च विचरन् द्विरदौघसमावृतः । शोभते पक्षिसंघातैर्विनतानंदनो यथा ॥ १६१ ॥ घनाघनघनस्वानो दाननिर्झरपर्वतः । लंकेंद्रेणेक्षितः सोऽयमासीद्वारणसत्तमः ॥ १६२ ॥ विद्यापराक्रमोग्रेण तेनायं साधितोऽभवत् । त्रिलोककंटकाभिख्यां प्रापितश्चारुलक्षणः ॥ १६३ ॥ अप्सरोभिः समं स्वर्गे प्रकीड्य सुचिरं सुखम् । करिणीभिः समं क्रीडामकरोत्सुकरी पुनः॥१६४॥ ईदृशी कर्मणां शक्तिर्यज्जीवाः सर्वयोनिषु । वस्तुतो दुःखयुक्तासु प्राप्नुवंति परां रतिम् ॥१६५।। च्युतः सन्नभिरामोऽपि साकेतानगरे नृपः । भरतोऽयमभूद्धीमान् सद्धर्मगतमानसः ॥ १६६ ॥ विलीनमोहनिचयः सोऽयं भोगपराङ्मुखः । श्रामण्यमीहते कर्तुं पुनर्भवनिवृत्तये ॥ १६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org