________________
पद्मपुराणम् ।
१५६
पंचाशीतितमं पर्व ।
ददर्श संभ्रमेणैतं पौरलोकः स पार्थिवः । शैलाग्रेऽवस्थितः सोऽयमिति ज्ञात्वा सुभक्तिकः १४२ भक्ष्यैर्बहुप्रकारैस्तं तर्पयंतिस्म पूजितम् । जिहेंद्रियरतो मायां स च भेजे कुकर्मतः ॥ १४३ ॥ स त्वं यः पर्वतस्याग्रे यतिनाथो व्यवस्थितः । वंदितस्त्रिदशैरेवमुक्तः सोऽनमयच्छिरः ॥ १४४ ॥ अज्ञानादभिमानेन दुःखचीजमुपार्जितम् । स्वादगौरवसक्तेन तेनैदं स्वस्य वचनम् || १४५ ॥ एतत्तेन गुरोर न मायाशल्यमुद्धृतम् । दुःखभाजनतां तेन संप्राप्तः परमामिमाम् ॥ १४६ ॥ ततो मृदुमतिः कालं कृत्वा तं कल्पमाश्रितः । अभिरामोऽमरो यत्र वर्त्तते महिमान्वितः ॥ १४७॥ पूर्वकर्मानुभावेन तयोरतिनिरंतरा । त्रिविष्टपेऽभवत्प्रीतिः परमर्द्धिसमेतयोः ॥ १४८ ॥ देवीजनसमाकीर्णौ सुखसागरवर्त्तिनौ । बहूनब्धिसमांस्तत्र रेमाते तौ स्वपुण्यतः ॥ १४९ ॥ च्युतो मृदुमतिस्तस्मात्पुण्यराशिपरिक्षये । मायावशेष कर्मातो जंबूद्वीपं समागतः ।। १५० ।। उत्तुंग शिखरो नाम्ना निकुंज इति भूधरः । अटव्यां तस्य शल्लक्यां गहनायां विशेषतः ॥ १५१ ॥ अयं जीमूतसंघातसंकाशो वारणोऽभवत् । क्षुब्धार्णवसमस्वानो गतिनिर्जितमारुतः ।। १५२ ।। अत्यंतभैरवाकारः कोपकालेऽभिमानवान् । शशांका कृतिसदंष्ट्रो दंतिराजगुणान्वितः ।। १५३ ।। विजयादिमहानागगोत्रजः परमद्युतिः । द्विषन्नैरावतस्यैव स्वच्छन्दकृतविग्रहः || १५४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org