________________
पंद्मपुराणम् ।
१५५
पंचाशीतितम पर्व। दुरोदरे सदा जेता सुविदग्धः कलालयः । कामोपभोगसक्तात्मा रेमे मृदुमतिः पुरे ॥ १२९ ॥ वसन्तसमये नाम गणिकानामनुत्तमा । द्वितीया रमणाचारे तस्याभूत्वरमेप्सिता ॥ १३०॥ पितरौ बंधुभिः सार्धं दरिद्रयात्तेन मोचितौ । राजलीलां परिप्राप्तौ लब्धसर्वसमीहितौ ॥ १३१॥ कुंडलाधैरलंकारैः पिताभूदतिभासुरः । नानाकार्यगणव्यग्रा माता कांच्यादिमंडिता ॥ १३२ ॥ शशांकनगरे राजगृहं चौयरतोऽन्यदा । विष्टो मृदुमतिः शब्दमशृणोन्नंदिवर्द्धनम् ॥ १३३ ॥ शशांकमुखसंज्ञस्य गुरोश्चरणमूलतः । मयाद्य परमो धर्मः श्रुतः शिवसुखप्रदः ॥ १३४ ॥ विषया विषवदेवि परिणामे सुदारुणाः । तस्माद्भजाम्यहं दीक्षां न शोकं कर्तुमर्हसि ॥ १३५ ॥ शिक्षयंतं नृपं देवीमेवं श्रीनंदिवर्द्धनम् । श्रुत्वा मृदुमतिवोधि निर्मला समुपाश्रितः ॥ १३६ ॥ संसारभावसविनःसाधोश्चन्द्रमुखश्रुतेः । पादमूलेऽभजदीक्षां सर्वग्रन्थविमोचिनीम् ॥ १३७ ॥ अतपत्स तपो घोरं विधिं शास्त्रोक्तमाचरन् । भिक्षा प्राप्नुवन्किचित्तासुकां स क्षमान्वितः १३८ अथ दुर्गगिरे द्धि नाम्ना गुणनिधिमुनिः । चकार चतुरो मासान्वार्षुकानत्र मुक्तिदान् ॥ १३९॥ सुरासुरास्तुतो धीरः समाप्तनियमोऽभवत् । उत्पपात मुनिः कापि विधिना गगनायनः ॥१४॥ अथो मृदुमतिर्भिक्षाकरणार्थं सुचेष्टितः । आलोकनगरं प्राप्तो युगमात्राहितेक्षणः ॥ १४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org