________________
१५४
पद्मपुराणम् ।
पंचाशीतितम पर्य। चतुःषष्टिसहस्राणि वर्षाणां स सुदर्शनः । अकंपितमना वीरस्तपश्चक्रेऽतिदुःसहम् ॥ ११६ ॥ पंचप्रणामसंयुक्तं समाधिमरणं श्रितः । अशिश्रियत्सुदेवत्वं कल्प ब्रह्मोत्तरश्रुतो ॥ ११७ ॥ असौ धनदपूर्वस्तु जीवः संसृत्य योनिषु । पोदने नगरे जज्ञे जंबूभरतदक्षिणे ॥ ११८ ।। शकुनाग्निमुख स्तस्य माहनी जन्मकारणम् । नाम्ना मृदुमतिश्चासौ व्यर्थेन परिभाषितः ॥११९॥ द्यूताविनयसक्तात्मा रथ्यारेणुसमुक्षितः । नानापराधवद्वयेष्यः स बभूव दुरीहितः ॥ १२० ॥ लोकोपालंभखिन्नाभ्यां पितृभ्यां स निराकृतः । पर्यटय धरणी प्राप यौवने पोदनं पुनः ॥१२१॥ प्रविष्टो भवनं किंचिजलं पातुमयाचत । अददान्माहनी तस्मै जलं निपतदश्रुका ॥ १२२ ॥ सुशीतलांबुतृप्तात्मा पप्रच्छासौ कुतस्त्वया । रुद्यते करुणायुक्तं इत्युक्ते माहनी जगौ ॥ १२३ ॥ भद्र त्वदाकृतिबालो मया पतिसमेतया । करुणोज्झितया गेहात्पुत्रको हा निराकृतः ॥ १२४ ॥ स त्वया भ्राम्यता देशे यदि स्यादीक्षितः क्वचित् । नीलोत्पलप्रतीकाशस्ततो वेदय तद्गतम् १२५ ततोऽसावश्रुमानूचे सवितृ रुदितं त्यज । समाश्वसिहि सोऽहं ते चिरदुर्लक्ष्यका सुतः॥ १२६ ॥ शकुनानिमुखेनामा पुत्रप्राप्तिमहोत्सवम् । परिप्राप्ता सुखं तस्थौ तत्क्षणप्रसुतस्तनी ।। १२७ ॥ तेजस्वी सुंदरो धीमानानाशास्त्रविशारदः । सर्वस्वीडङ्मनोहारी धूर्तानां मस्तके स्थितः ॥१२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org