________________
पद्मपुराणम् ।
१५३
पंचाशीतितम पर्व ।
बभूव तनयस्तस्य सर्वलोकसमुत्सवः । अभिरामोंऽगनामाभ्यां महागुणसमुच्चयः ॥ १०३ ॥ महावैराग्यसंपन्नं प्रव्रज्याभिमुखं च तम् । ऐश्वर्येऽयोजयच्चक्री कृतविवाहकं बलात् ॥ १०४ ॥ त्रीणि नारीसहस्राणि सततं गुणवर्त्तिनम् । लालयंति स्म यत्नेन वारिस्थमिव वारणम् ॥१०५॥ वृतस्ताभिरसौ मेने रतिसौख्यं विषोपमम् । श्रामण्यं केवलं कर्तुं न लेभे शान्तमानसः ॥ १०६॥ असिधारावतं तीव्र तासां मध्यगतो विभुः । चकार हारकेयूरमुकुटादिविभूषितः ।। १०७ ॥ स्थितो वरासने श्रीमान्वनिताभ्यः समंततः । उपदेशं ददौ जैनधर्मशंसनकारिणम् ॥ १०८ ॥ चिरं संसारकान्तारे भ्राम्यता पुण्यकर्मतः । मानुष्यकमिदं कृच्छात्प्राप्यते प्राणधारिणा॥१०९॥ जानानः को जनः कूपे क्षिपति स्वं महाशयः । विषं वा कः पिबेत्को वा भृगौ निद्रां निषेवते ॥ को वा रत्नेप्सया नाग-मस्तकं पाणिना स्पृशेत् । विनाशकेषु कामेषु धृतिर्जायेत कस्य वा १११ सुकृतासक्तिरेकैव श्लाघ्या मुक्तिसुखावहा । जनानां चंचलेऽत्यंत जीविते निस्पृहात्मनाम् ॥११२।। एवमाद्या गिरः श्रुत्वा परमार्थोपदेशिनीः । उपशांता स्त्रियः शक्ता नियमेषु ररंजिरे ॥ ११३ ॥ राजपुत्रः सुदेहेऽपि स्वकीये रागवर्जितः । चतुर्थादिभिराहारैः कर्मकालुष्यमक्षिणोत् ॥ ११४ ॥ तपसा स विचित्रेण समाहितमना विभुः । शरीरं तनुतां निन्ये ग्रीष्मादित्य इवोदकम् ॥११५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org