________________
पद्मपुराणम् ।
पंचाशीतितम पर्व। विनोदो दयितायुक्तो हृष्टः प्रच्छन्नपापकः । गृहं गतः पुनस्तौ च संसारं पुरुमाटतुः ॥ ७७ ॥ महिषत्वमितोऽरण्ये विनोदो रमणः पुनः । ऋक्षो बभूव निश्चक्षुर्दग्धौ शालवने च तौ ॥ ७८ ॥ जातौ गिरिवने व्याधौ मृतौ च हरिणौ पुनः । तयोर्बधुजनस्त्रासादिशो यातो यथायथम् ॥७९॥ जीवंतावेव तावत्तौ विषादैः कांतलोचनौ । स्वयंभूतिरथो राजा विमलं बंदितुं गतः ॥ ८० ॥ सुरासुरैः समं नत्वा जिनेंद्रं समहर्धिकः । प्रत्यागच्छन्ददशैतौ स्थापितौ च जिनालये ॥ ८१॥ संगतौ तत्र पश्यन्तौ भक्षयंतौ यथेप्सितम् । अन्नं राजकुले प्राप्तौ हरिणौ परमां धृतिम् ॥ ८२॥ आयुष्येकः परिक्षीणे लब्धमृत्युः समाधिना । सुरलोकमितोऽन्योऽपि तिर्यक्षु पुनरभ्रमत् ।।८३॥ ततः कथमपि प्राप कर्मयोगान्मनुष्यताम् । विनोदचरसारंगः स्वप्ने राज्यमिवोदितम् ॥ ८४ ॥ जंबूद्वीपस्य भरते कोपिल्यनगरे धनी । द्वाविंशतिप्रमाणाभिहेमकोटिभिरूर्जितः ॥ ८५ ॥ अमुष्य धनदाहस्य वणिजो रमणोऽमरः । च्युतो भूषणनामाऽभूद्वारुण्यां तनयः शुभः ॥ ८६ ॥ नैमित्तेनायमादिष्टः प्रव्रजिष्यत्ययं ध्रुवम् । श्रुत्वैवं धनदो लोकादभूदुद्विग्नमानसः ॥ ८७ ॥ सत्पुत्रप्रेमसक्तेन तेन वेश्मनि धापितम् । योग्यं सर्वक्रियायोगे यत्र तिष्ठति भूषणः ॥ ८८ ॥ सेव्यमानो वरस्त्रीभिर्वस्वाहारविलेपनैः। विविधैर्ललितं चक्रे सुंदरं तत्र भूषणः ॥ ८९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org