________________
पद्मपुराणम् ।
१५०
पंचाशीतितम पर्व । भेकत्वं मूषिकत्वं च बर्हिणत्वं पृदाकुताम् । कुरुत्वं च पुनः प्राप्तौ कर्मानिलजवेरितौ ॥ ६४ ॥ पूर्वश्रुतिरतो हस्ती ददुरश्चेतराऽभवत् । तस्याक्रांतः स पादेन चकारासुविमोचनम् ॥ ६५ ॥ वर्षाभूत्वं पुनः प्राप्तः शुष्के सरसि भक्षितः । काकैः कुक्कुटतां प्राप्तो मारित्वं तु हस्त्यसौ ६६ कुलंकरचरो जन्मत्रितयं कुक्कुरोऽभवत् । भक्षितो द्विजपूर्वेण मार्जारेण नृजन्मना ।। ६७॥ राजद्विजचरौ मत्स्यशिशुमारत्वमागतौ । बद्धो जालेन कैवत्तः कुठारेणाऽऽहतो मृतौ ॥ ६८॥ शिशुमारस्तयोरुल्काबहाशतनयोऽभवत् । विनोदो रमणो मत्स्यो द्विजो राजगृहे तयोः ॥६९॥ निःस्वत्वेनाक्षरत्वे च सति जंतुर्द्विपात्पशुः । रमणः संप्रधा/वं वेदार्थी निःसृतो गृहात् ॥ ७० ॥ क्षोणी पर्यटता तेन गुरुवेश्मसु शिक्षिताः । चत्वारः सांगका वेदाः प्रस्थितश्च पुनर्गृहम् ।।७१ ।। मागधं नगरं प्राप्तो भ्रातृदर्शनलालसः । भास्करेऽस्तंगते चासौ व्योम्नि मेधांधकारिते ॥ ७२ ।। नगरस्य बहिर्यक्षनिलये वा समाश्रितः । जीर्णोद्यानस्य मध्यस्थे तत्र चेदं प्रवत्तेते ॥७३॥ विनोदस्यांगना तस्य समिधाख्या कुशीलकः । अशोकदत्तसंकेता तं यक्षालयमागता ॥ ७४ ।। अशोकदत्तको मार्गे गृहीतो दंडपाशिकैः । विनोदोऽपि गृहीतासिर्भार्यानुपदमागतः ॥ ७५ ॥ सद्भावमंत्रणं श्रुत्वा समिधा क्रोधसंगिना । सायकेन विनोदेन रमणः प्रासुकीकृतः ॥७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org