________________
पद्मपुराणम् ।
१४९
पंचाशीतितमं पर्व |
सूर्योदयः पुरेऽत्रैव ख्यातश्रुतिरतः श्रुतिः । विश्वाहेनाग्निकुंडायां जातोऽभूत्तत्पुरोहितः ।। ५१ ।। कुलं करोऽन्यदा गोत्रसंतत्या कृतसेवनान् । तापसान्सेवितुं गच्छन्नपश्यन्मुनिपुंगवम् ॥ ५२ ॥ अभिनंदितसंज्ञेन तेनाऽसौ नतिमागतः । जगदेऽवधिनेत्रेण सर्वलोकहितैषिणा ॥ ५३ ॥ यत्र त्वं प्रस्थितस्तत्र तापसेभ्यः पितामहः । तापसः सर्पतां प्राप्तः काष्ठमध्येऽवतिष्ठते ॥ ५४ ॥ काष्ठे विपाट्याने तं तापसेन गतो भवान् । रक्षिस्यसि गतस्यास्य तच्च सर्वं तथाऽभवत् ॥ ५५ ॥ कदागमसमापन्नान् दृष्ट्वाऽसौ तापसांस्ततः । प्रबोधमुत्तमं प्राप्तः श्रामण्यं कर्तुमुद्यतः ।। ५६ ।। वसुपर्वतकश्रुत्या मूढश्रुतिरतस्ततः । तममोहयदेवं च पापकर्मा पुनर्जगौ ॥ ५७ ॥ गोत्रक्रमागतो राजन् धर्मोऽयं तव वैदिकः । ततो हरिपतेः पुत्रो यदि त्वं तत्तमाचर ॥ ५८ ॥ नाथ वेदविधिं कृत्वा सुतं न्यस्य निजे पदे । करिष्यसि हितं पश्चात्प्रसादः क्रियतां मम ॥५९॥ एवमेतदथाभीष्टा श्रीदामेति प्रकीर्त्तिता । महिष्यचितयत्यस्य नूनं राज्ञाऽन्य संगता ॥ ६० ॥ ज्ञातास्मि येन वैराग्यात्प्रव्रज्यां कर्तुमिच्छति । प्रव्रज्येदपि किं नो वा को जानाति मनोगतिम् ॥ तस्माद्व्यापादयाम्येनं विषेणेत्यनुचिंत्य सा । पुरोहितान्वितं पापा कुलकरममारयत् ॥ ६२ ॥ ततोऽनुध्यानमात्रेण पशुघातेन पापतः । कालप्राप्तावभूतां तौ निकुंजे शशकौ वने ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org