________________
पद्मपुराणम् ।
૨૪૮
पंचाशीतितमं पर्व |
कालं द्राघिष्टमत्यंतं भुक्त्वा श्रीविभवं परम् | अप्सरःपरमां वीक्ष्य तां नीलांजननर्तकीम् ||३८|| स्तुतो लोकांतिकैर्देवैः स्वयंबुद्धो महेश्वरः । न्यस्य पुत्रशते राज्यं निष्क्रांतो जगतां गुरुः ॥३९॥ उद्याने तिलकाभिख्ये प्रजाभ्यो यदसौ गतः । प्रयागमिति तत्तेन लोके तीर्थ प्रकीर्तितम् ||४०|| संवत्सरसहस्रं स दिव्यं मेरुरिवाचलः । गुरुः प्रतिमया तस्थौ त्यक्ताशेषपरिग्रहः ॥ ४१ ॥ स्वामिभक्त्या समं तेन ये श्रामण्यमुपस्थिताः । पण्मासाभ्यंतरे भग्ना दुःसहैस्ते परीष हैः ॥ ४२ ॥ ते भग्ननिश्चयाः क्षुद्राः स्वेच्छाविरचितव्रताः । वल्लिनः फलमूलाद्यैर्वालवृत्तिमुपाश्रिताः || ४३॥ तेषां मध्ये महामानो मरीचिरिति यो ह्यसौ । परिव्राज्यमयंचके काषायी सकषायधीः ॥ ४४ ॥ सुप्रभस्य विनीतायां सूर्वचंद्रोदयौ सुतौ । प्रह्लादनारूपमहिषी कुक्षिभूमि महामणी || ४५ ॥ स्वामिना सह निष्क्रांती प्रथितौ सर्वविष्टपे । भग्नौ श्रामयतोऽत्यंतप्रीतौ तं शरणं गतौ ॥ ४६ ॥ मरीचिशिष्ययोः कूटप्रतापत्रतमानिनः । तयोः शिष्यगणो जातः परिवाद्गदितो महान् ॥४७॥ कुधर्माचरणाद्धांतों संसारं तौ चतुर्गतिम् । सहितौ पूरिता क्षोणी ययोस्त्यक्तकलेवरैः ॥ ४८ ॥ ततचंद्रोदयः कर्मवशान्नागाभिधे पुरे । राज्ञो हरिपतेः पुत्रो मनोलूतासमुद्भवः ॥ ४९ ॥ जातः कुलंकराभिख्यः प्राप्तश्च नृपतां पराम् । पूर्व स्नेहानुबंधेन भावितेन भवान् बहून् ।। ५० ।।
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org