________________
पद्मपुराणम् ।
पंचाशीतितम पर्व । पातालेऽसुरनाथाद्या क्षोण्यां चक्रधरादयः । फलं शक्रादयः स्वर्गे परमं यस्य भुंजते ॥ २५ ॥ तावत्प्रस्तावमासाद्य साधु नारायणः स्वयम् । प्रणम्य शिरसाऽपृच्छदिति संगतपाणिकः ॥२६॥ उपमृद्य प्रभो स्तंभं नागेन्द्रः क्षोभमागतः । प्रशमं हेतुना केन सहसा पुनरागतः ।। २७ ॥ भगवन्निति संशीतिमप्यपाकतुमर्हसि । ततो जगाद वचनं केवली देशभूषणः ॥ २८ ॥ बलोद्रेकादयं तुंगात्संक्षोभं परमं गतः । स्मृत्वा पूर्वभवं भूयः शमयोगमशिश्रियत् ॥ २९ ॥ आसीदाद्ये युगेऽयोध्यानगर्यामुत्तमश्रुतिः । नाभितो मरुदेव्याश्च निमित्तात्तनुमाश्रितः ॥३०॥ त्रैलोक्यक्षोभणं कर्म समुपार्य महोदयः । प्रकटत्वं परिप्रापदिति देवेन्द्रभूतिभिः ॥३१॥ विंध्याहिमनगोत्तुंगस्थली सागरमेखलाम् । पत्नीमिव निजां साध्वीं वश्यां योऽसेवत क्षितिम् ३२ भगवान्पुरुषेद्रोऽसौ लोकत्रयनमस्कृतः । पुरारमत पुर्यस्यां दिवीव त्रिदशाधिपः ॥३३॥ श्रीमानृषभदेवोऽसौ द्युतिकांतिसमन्वितः । लक्ष्मीश्रीकांतिसंपन्नः कल्याणगुणसागरः ॥३४॥ त्रिज्ञानी धीरगंभीरो दृङ्मनोहारिचेष्टितः । अभिरामवपुः सत्त्वी प्रतापी परमोऽभवत् ॥ ३५ ॥ सौधर्मेन्द्रप्रधानैयस्त्रिदशैरग्रजन्मनि । हेमरत्नघटैमरावभिषिक्तः सुभक्तिभिः ॥३६॥ गुणान्कस्तस्य शक्नोति वक्तुं केवलिवर्जितः । ऐश्वर्य प्रार्थ्यते यस्य सुरेंद्रैरपि संततम् ॥ ३७॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org