________________
पद्मपुराणम् ।
१४६
पंचाशीतितमं पर्व । केकया कैकयी देवी कोशलेंद्रात्मजा तथा । सुप्रजा चेति विख्यातास्तेषां श्रेणिक मातरः ॥ १२ ॥ जिनशासनसद्भावाः साधुभक्तिपरायणाः । देवीशतसमीकीर्णा देव्याभा गंतुमुद्यताः ॥ १३ ॥ मुनिदर्शन तृग्रस्ता सुग्रीवप्रमुखा मुदा । विद्याधराः समायाता महाविभवसंगताः ॥ १४ ॥ आतपत्रं मुनेर्दृष्ट्वा सकलोडुपसन्निभम् । उत्तीर्य पद्मनाभाद्या द्विरदेभ्यः समागताः ॥ १५ ॥ कृतांजलिपुटाः श्रुत्वा प्रणम्य च यथाक्रमम् । समर्च्य च मुनींस्तस्थुरात्मयोग्यासु भूमिषु ॥ १६ ॥ शुश्रुवुश्च मुनेर्वाक्यं सुसमाहितचेतसः । संसारकारणध्वंसि धर्मशंसनतत्परम् || १७ || अणुधर्मोऽधर्मश्च श्रेयसः पदवी द्वयी । पारंपर्येण तत्राद्या परा साक्षात्प्रकीर्तिता ॥ १८ ॥ गृहाश्रमविधेः पूर्वं महाविस्तारसंगतः । परो निर्ग्रथशूराणां कीर्तितोऽत्यंत दुःसहः ।। १९ ।। अनादिनिधने लोके यत्र लोभेन मोहिताः । जंतवो दुःखमत्युग्रं प्राप्नुवंति कुयोनिषु ॥ २० ॥ धर्मो नाम परो बंधुः सोऽयमेको हितः पुमान् । मूलं यस्य दया शुद्धा फलं वक्तुं न शक्यते ॥ २१ ॥ ईक्षितं जंतुना सर्व लभ्यते धर्मसंगमात् । धर्मः पूज्यतमो लोके बुधा धर्मेण भाविताः ॥ २२ ॥ दयामूलस्तु यो धर्मो महाकल्याणकारणम् । दग्धधर्मेषु सोऽन्येषु विद्यते नैव जातुचित् ॥ २३ ॥ जिनेंद्रविहिते सोऽयं मार्गे परमदुर्लभे । सदा सन्निहिते येन त्रैलोक्याग्रमवाप्यते ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org