SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १४५ अथ पंचाशीतितमं पर्व । एतस्मिन्नंतरे राजन्भगवान्देश भूषणः । कुलभूषणयुक्तश्च संप्राप्तो मुनिभिः समम् ॥ १ ॥ ययोर्वेशगिरावासीत्प्रतिमां चतुराननाम् । श्रितयोरुपसर्गोऽसौ जनितः पूर्ववैरिणा ॥ २ ॥ पद्मलक्ष्मणवीराभ्यां प्रातिहार्ये कृते ततः । केवलज्ञानमुत्पन्नं लोकालोकाव मासनम् ॥ ३ ॥ ततस्तुष्टेन तार्येण भक्तिस्नेहमुपेयुषाम् । रत्नास्त्रवाहनान्याभ्यां दत्तानि विविधानि वै ॥ ४ ॥ यत्प्रसादान्निरस्त्रत्वं प्राप्तौ संशयितौ रणे । चक्रतुर्विजयं शत्रोतो राज्यमवापतुः ।। ५ ।। देवासुरस्तुतावेतौ तौ लोकत्रयविश्रुतौ । मुनीन्द्रौ नगरीमुख्यां प्राप्तावुतरकोशलाम् || ६ || नंदनप्रतिमेतौ च महेंद्रोदयनामनि । उद्यानेऽवस्थितौ पूर्वं यथा संजयनंदनौ ॥ ७ ॥ महागणसमाकीर्णौ चंद्रार्कप्रतिमाविमौ । सम्प्राप्तौ नगरीलोको विवेद परमोदयौ ॥ ८ ॥ ततः पद्माभचक्रेशौ भरतारिनिषूदनौ । एते बंदारवो गंतुं संयतेंद्रौ समुद्यताः ॥ ९ ॥ आरुह्य वारणानुग्रानुक्त्वा भानौ समुद्रते । जातिस्मरं पुरस्कृत्य त्रिलोकविजयं द्विपम् ॥ १० ॥ देवा इव प्रदेशं तं प्रस्थिताश्चारुचेतसः । कल्याणपर्वतौ यत्र स्थितौ निर्ग्रथसत्तमौ ॥ ११ ॥ ३-१० Jain Education International पंचाशीतितमं पर्व | For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy