SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १४४ चतुरशीतितमं पर्व । न विहारे न निद्रायां न ग्रासे न च वारिणि । कुरुते याचितोऽपीच्छां सुहृन्मानमितो यथा ॥ २९ ॥ दुर्ज्ञानांतरीक्षं रहस्यं परमाद्भुतम् । किमेतदिति नो विद्यो गजस्य मनसि स्मितम् ॥ ३० ॥ न शक्यस्तोष मानेतुं न च लोभं कदाचन । न याति क्रोधमप्येष दंती चित्रार्पितो यथा ।। ३१ ।। सकलस्यास्य राज्यस्य मूलमद्भुतविक्रमः । त्रिलोकभूषणो देव वर्तते करटीदृशः ॥ ३२ ॥ इति विज्ञाय देवोऽत्र प्रमाणं कृत्यवस्तुनि । निवेदनक्रियामात्रसारा ह्यस्मादृशां मतिः ॥ ३३ ॥ श्रुत्वेहितं नागपतेस्तदीदृक्, पूर्वेहितात्यंतविभिन्नरूपम् । जातौ नरेद्रावधिकं विचितौ पद्माभलक्ष्मीनिलयौ क्षणेन ॥ ३४ ॥ आलान गेहान्निस्सृतः किमर्थं शमं पुनः केन गुणेन जातः । वृणोसि कस्मादर्शनं न नाग इत्युद्युतिः पद्मरविर्बभूव ॥ ३५ ॥ इत्यार्षे श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे त्रिभुवनालंकारशमाभिधानं नाम चतुरशीतितमं पर्व । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy